SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ अचेलगो य जो धम्मो, जो इमो संतरुत्तरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं १ ॥ १३ ॥ व्याख्या – “उभओ वि" त्ति उभावपि “अल्लीण" त्ति 'आलीनौ' मनोवाक्काय गुप्तिष्वाश्रितौ 'सुसमाहितौ' सुष्ठु | समाधिमन्तौ ॥ “उभउ” त्ति उभयोः 'तत्रे'ति श्रावस्त्याम् || चिन्ताखरूपमाह - ' कीदृश: ?' किं स्वरूपः ? 'वा' विकल्पे, “इमो” त्ति 'अयम्' अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अयमिति दृश्यमानगणभृच्छिष्यसम्बन्धी “धम्मो व" त्ति | वाशब्दो भिन्नक्रमः, ततश्चायं वा धर्मः कीदृश: ?, आचारः - वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः स एव धर्म - स्तस्य प्रणिधिः - व्यवस्थापनम् आचारधर्मप्रणिधिः “इमा व" त्ति प्राकृतत्वात् 'अयं वा' अस्मत्सम्बन्धी, “सा व" त्ति स वा द्वितीययतिसत्कः । अयमाशयः - अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मः, तत्किमस्यैतत्साधकानां च भेदः ? इति । तदेतदेव बोद्धुमिच्छामो वयमिति । उक्तामेव चिन्तां व्यक्तीकर्तुमाह – “चाउजामो उ" त्ति 'चतुर्यामश्च' चतुर्महात्रतो यो धर्मो देशितः पार्श्वेन इति सम्बन्धः । " जो इमो" त्ति चकारस्य प्रश्लेषाद् य चायं पच शिक्षाः - प्राणातिपा|तविरमणोपदेशरूपाः सञ्जाता यस्मिन्नसौ पचशिक्षितो वर्द्धमानेन देशित इति योगः, "महामुणि" त्ति महामुनिना । अनयोर्विशेषे किन्नु कारणमित्युत्तरेण सम्बन्धः । अनेन धर्मविषयः संशयो व्यक्तीकृतः । आचारधर्मप्रणिधिविषयं तमेव | व्यनक्ति — अचेलकश्च यो धर्मो वर्द्धमानेन देशित इत्यपेक्ष्यते । तथा "जो इमो” त्ति यश्चायं सान्तराणि - वर्द्धमानखामियत्यपेक्षया मानवर्णविशेषतः सविशेषाणि उत्तराणि - महामूल्यतया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहाऽप्यपेक्ष्यते । एककार्य - मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ - प्रवृत्तौ एककार्यप्रपन्नौ तयो: प्रक्रमात् पार्श्ववर्द्धमानयोर्विशेषे 'किमि' ति संशये, 'नु' वितर्के 'कारणं' हेतुः । शेषं स्पष्टमिति सूत्रपचकार्थः ॥ ९-१०-११-१२-१३ ॥ एवं च विनेयचिन्तोत्पत्तौ यत् केशिगौतमावकाष्टा तदाह -oxoxoxoxoxox केशिगौतमयोधर्मिकमीमांसा ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy