SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ २२॥ परीषहाध्ययनम् । पोरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैब, म्रियन्ते दुःखभागिनः॥४॥ तथा—अन्नं इमं सरीरं, अन्नो जीवो त्ति एव कयबुद्धी । दुक्खकरं जीव! तुमं, छिंद ममत्तं सरीरम्मि ॥ ५ ॥ इमं भाविंतो सम्म सहइ त्ति पीयसोणिओ रत्ति चेव कालगओ । एवमहियासियत्वं ।। इति दंशमशकपरीषहः ॥ अधुनाऽचेलः सन् तुद्यमानो दंशमशकैर्वनाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहपरिजुन्नेहिं वत्थेहिं, होक्खामि त्ति अचेलए। अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए॥१२॥ व्याख्या-'परिजीर्णैः' दुर्बलैः 'वस्त्रैः' कल्पादिमिः "होक्खामि" त्ति भविष्यामि 'अचेलकः' चेलकविकलः अल्पदिनभावित्वादेषाम् , इतिशब्दस्यात्र सम्बन्धात् 'इति' एतद् भिक्षुर्न चिन्तयेद् इति योगः । अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिच्छ्राद्धः सुन्दरतराणि वस्त्राणि दास्यति इति मिक्षुर्न चिन्तयेत् । इदमुक्तं भवति-न जीर्णचेलोऽन्यचेललाभासंभावनया दैन्यं लाभसंभावनया वा प्रमोदं गच्छेदिति सूत्रार्थः ॥ १२ ॥ इत्थं स्थविरकल्पिकमा-1 नित्याचेलकपरीषह उक्तः ॥ सम्प्रति सामान्यतस्तमेवाह एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं नचा, नाणी णो परिदेवए ॥ १३ ॥ व्याख्या-'एकदा' जिनकल्पिकाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादिवत्रतया वा अचेलको भवति सचेलश्च । 'एकदा' स्थविरकल्पिकाद्यवस्थायाम् । ततः किम् ? इत्याह-एतत्' इत्यवस्थौचित्येन सचेलत्वमचेलत्वं च 'धर्महितं साधुधर्मोपकारकं 'ज्ञात्वा' अवबुध्य, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिभिः । यथोक्तम्-पंचहिं ठाणेहिं पुरिम अन्यदिदं शरीरमन्यो जीव इत्येवंकृतबुद्धिः । दुःखकर जीव! त्वं छिद्धि ममत्वं शरीरे ॥५॥ I॥२२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy