SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पकारिषु तुल्यचित्त एव प्राकृतलक्षणत्वाद् विसर्जनीयस्य रेफः, महामुनिः । किम् ? इत्याह-'नाग इव' करीव वाशब्दस्य इवार्थस्यात्र सम्बन्धात् , 'संग्रामशिरसि' रणमस्तके 'शूरः' पराक्रमवान् 'अमिहन्यात्' जयेत् 'परं' शत्रुम् । अयमभिप्रायः-यथा शूरः करी शरैस्तुद्यमानोऽपि तदगणनया रणशिरसि शत्रं जयति एवमयमपि दंशादिभिरुपद्रूयमाणोऽपि भावशत्रु क्रोधादिकं जयेदिति सूत्रार्थः ॥ १० ॥ कथं जयेद् भावशत्रुम् ? इत्याह न संतसे न वारिज्जा, मणं पि ण पओसए । उवेहे न हणे पाणे, मुंजते मंस-सोणियं ॥११॥ व्याख्या-'न संत्रसेत्' नोद्विजेद् दंशादिभ्य इति गम्यते । न 'वारयेत्' निषेधेत दंशादीनेव तुदतो मा भूदन्तराय इति । 'मनः' चित्तं तदपि आस्तां वचनादि 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात् किन्तु "उवेहे"त्ति 'उपेक्षेत' औदासीन्येन पश्येद् | अत एव न हन्यात् 'प्राणान्' प्राणिनः 'भुञ्जानान्' आहारयतो मांसशोणितम् । अपि चासंज्ञिन एते आहारार्थिनश्च *Iभोज्यमेतेषां मच्छरीरं बहुसाधारणं यदि भक्षयन्ति किमत्र प्रद्वेषेण ? इति विचिन्तयेदिति सूत्रार्थः ॥ ११ ॥ __ उदाहरणश्च-चंपाए नयरीए जियसत्तुस्स रन्नो पुत्तो समणभद्दो जुवराया धम्मघोसस्स अंतिए धम्मं सोचा | निबिनकामभोगो पवइओ। अहिजियसुत्तो दढसत्तयाए एगल्लविहारपडिम पडिवन्नो। अन्नया हिट्ठाभूमीए विहरंतो सरयकाले अडवीए पडिमं ठिओ रत्तीए मसएहिं खज्जइ । अउला वेयणा जाया। सो ते ण पमज्जइ चिंतेइ य–केवइयमेयं दुक्खं ?, पत्तोऽणंतगुणं नरएसु होज्जा । तथाहि-शृगालवृकरूपैश्च, चित्रकाऽऽकारधारकैः । आक्षेपत्रोटितस्नायुर्भक्ष्यन्ते रुधिरोक्षिताः ॥१॥श्वरूपैः कोलरूपैश्च, नारका भयविह्वलाः । खण्डशः प्रविलुप्यन्ते, क्रन्दन्तः शबलादिमिः॥२॥ काकगृध्रादिरूपैश्च, लोहतुण्डेबलान्वितैः । विनिकृष्टाक्षिजिह्वाबा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणै
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy