SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ अनाथिनिर्ग्रन्थस्व वक्तव्यता। PBXeXOXOXOXOXOXOXOXOXBXX मयाऽनुष्ठितेयम्' इत्येवंरूपेण दया-संयमस्तद्विहीनः सन् ॥ यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्ता ? इत्याह-निरर्थिका, तुशब्दस्येह सम्बन्धात् 'निरर्थिकैव' निष्फलैव नाग्ये-श्रामण्ये रुचिर्नाग्यरुचिः तस्य यः “उत्तिमट्टि" त्ति सुव्यत्ययाद् अपेर्गम्यमानत्वात् 'उत्तमार्थेऽपि' पर्यन्तसमयाराधनरूपे, आस्तां पूर्वम्, 'विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित् स्यादपि किश्चित् फलमिति भावः॥ किमेवम् ? उच्यते| यतः "इमे वि" त्ति 'अयमपि प्रत्यक्षो लोक इति सम्बन्धः "से" तस्य नास्ति, न केवलमयमेव 'परोऽपि भवान्तररूपः, | | तत्रेहलोकाभावः शरीरक्लेशहेतुलोचादिसेवनात्, परलोकाभावश्च कुगतिगमनभावतः । तथा च "दुहतो वि" ति 'द्विधापि' ऐहिकपारत्रिकार्थाभावेन “से झिज्झइ" त्ति स ऐहिकपारत्रिकार्थसम्पत्तिमतो जनानवलोक्य 'धिक मामपुण्यभाजनमुभय| भ्रष्टम्' इति चिन्तया क्षीयते 'तत्रे'त्युभयरूपे 'लोके' जगति ॥ यदुक्तम्-'स ज्ञास्यति पश्चादनुतापेन' इति तत्र यथासौ |परितप्यते तथा दर्शयन् उपसंहारमाह-एवमेव' उक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाच्छन्दाः-स्वरुचिविर|चिताचाराः कुशीला:-कुत्सितशीलास्तद्रूपाः-तत्स्वभावाः 'कुररीव' पक्षिणीव "निरट्ठसोय" ति निरर्थः-निःप्रयोजनः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापरूपमेति । यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते, न च |ततः कश्चित् प्रतीकार इति, एवमसावपि भोगरसगृद्ध ऐहिकाऽऽमुष्मिकाऽपायप्राप्तौ; ततोऽस्य स्वपरपरित्राणाऽसमर्थत्वेनाऽनाथत्वमिति भाव इति सूत्रत्रयोदशकार्थः ॥ एतत् कृत्वा यत् कृत्यं तदुपदेष्टुमाह सोचाण मेहावि! सुभासियं इमं, अणुसासणं णाणगुणोववेयं । मग्गं कुसीलाण जहाय सर्व, महाणियंठाण वए पहेणं ॥५१॥ व्याख्या-श्रुत्वा हे मेधाविन् ! सुष्टु-शोभनप्रकारेण भापितं सुभाषितम् 'इदम्' अनन्तरोक्तम् 'अनुशासनं' XOXOXOXOXOXOXOXOXOXOXOX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy