________________
अप्पा कत्ता विकत्ता य, दुक्खाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्टिओ ॥३७॥ व्याख्या – 'आत्मे 'ति व्यवच्छेदफलत्वाद् वाक्यस्य आत्मैव नदी 'वैतरणी' नरकसम्बन्धिनी, तद्धेतुत्वात् । अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वात् शाल्मली कूटशाल्मली । तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदुपमत्वं चाभिलषितस्वर्गापवर्गावाप्तिहेतुतया । आत्मैव मे नन्दनं वनम् एतदौपम्यं चास्य चित्तप्रहृत्तिहेतुतया ॥ यथा चैतदेवं तथाऽऽह - आत्मैव कर्त्ता दुःखानां सुखानां चेति योगः । 'विकरिता च' विक्षेपकः आत्मैव तेषामेव, अतश्चात्मैव मित्रममित्रं च, कीदृक् सन् ? दुःप्रस्थितः - दुःप्रवृत्तः सुप्रस्थितः - सुप्रवृत्तः, एतयोर्विशेषणसमासः । एवं च प्रव्रज्यायामेव सुप्रस्थितत्वेनाऽऽत्मनोऽन्येषां च योगक्षेमकरणसमर्थत्वाद् नाथत्वमिति सूत्रद्वयार्थः ॥ ३६-३७ ॥ पुनरन्यथाऽनाथत्वमाह -
इमा हुअण्णा वि अणाहया णिवा !, तमेगचित्तो निहुओ सुणेहि मे । नियंठधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरनरा ॥ ३८ ॥ जो पत्ताण महवयाहं, सम्मं च नो फासयई पमाया । अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ आउत्तया जस्स य नत्थि काई, इरियाए भासाए तहेसणाए । आयाणनिक्खेव दुगंछणाए, न धीरजायं अणुजाइ मग्गं ॥ चिरं पिसे मुंडई भवित्ता, अथिरवए तवनियमेहिं भट्ठे । चिरं पि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए ॥ ४१ ॥
४० ॥
अनाथनिर्ग्रन्थस्य
वक्तव्यता ।