________________
व्याख्या-स्पष्टम् । नवरम्-'गइप्पहाणं च" त्ति प्रधानगतिं च ॥ ममत्वं बन्ध इव ममत्वबन्धस्तं महाभया-IX वहम्, तत एव चौरादिभ्यो भयावाप्तेः । “निवाणगुणावह" ति निर्वाणगुणाः-अनन्तज्ञानादयस्तदावहमिति सूत्रद्वयार्थः ॥ ९७-९८ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
मृगापुत्रवक्तव्यता।
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां।
मृगापुत्रीयाख्यमेकोनविंशमध्ययनं समाप्तम् ॥ ...