________________
एवं सो अम्मापियरं, अणुमाणेत्ताण बहुविहं । ममत्तं छिंदती ताहे, महानागो व कंचुयं ॥ ८६ ॥ हड्डी वित्तं च मित्ते य, पुत्त दारं च नायओ। रेणुयं व पडे लग्गं, निद्धुणित्ताण निग्गओ ॥ ८७ ॥ व्याख्या - स्पष्टमेव । नवरम् - मृगस्येव चर्या मृगचर्या तां निःप्रतिकर्मतादिरूपां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि - ' एवं ' यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्विति शेषः । एवं चानुज्ञातः 'जहाति' त्यजति 'उपधिं ' परिग्रहं ततः । उक्तमेवार्थं सविस्तरमाह — मृगचर्यां चरिष्यामि सर्वदुःखविमोक्षणीं युवाभ्यामहम् अनुज्ञातः सन् । तावाहतुः — गच्छ मृगचर्ययेति प्रक्रमः, पुत्र ! 'यथासुखं' सुखानतिक्रमेण ॥ एवं सोऽम्बापितरौ 'अनुमान्य' अनुज्ञाप्य ॥ पूर्वमुपधित्याग उक्तः, अतस्तमेव विशेषत आह – 'इड्डी' त्यादि 'ऋद्धिं' करितुरगादिसम्पदमिति सूत्रचतुष्टयार्थः ॥ ८४ - ८५-८६-८७ ॥ ततोऽसौ कीदृग् जातः ? इत्याह
पंचमहवयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो य । सन्भितरबा हिरए, तवोकम्मम्मि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सङ्घभूएसु, तसेसु धावरेसु य ॥ ८९ ॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ ॥ ९० ॥ गारवेसु कसाए, दंडसल्लभएस य । नियत्तो हाससोगाओ, अणियाणो अबंधणो ॥ ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणेऽणसणे तहा ॥ ९२ ॥ अपसत्थेहिं दारेहिं, सङ्घओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥ ९३ ॥ व्याख्या – सुगमम् । नवरम् — गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, 'निवृत्त:' इति सर्वत्र सम्बन्धनीयम् । 'अबन्धनः ' रागद्वेषबन्धनरहितः ॥ "वासीचं दणकप्पे य" त्ति सूचकत्वात् सूत्रस्य वासीचन्दनव्यापारकयोः
-*-*
-0-0-0
मृगापुत्रवक्तव्यता ।