________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२६४॥
वैतरिणीजलोर्मिभिरिति शेषः, "विवाइतो" त्ति व्यापादितः॥ मुद्गरादिभिः, गताः-नष्टा आशाः-मनोरथा यस्मिंस्तद् गताशं | alएकोनविंशं यथा भवत्येवम् , "भग्गगत्तेणं" ति भग्नगात्रेण सता॥ 'कल्पितः' खण्डितो वस्त्रवत् 'पाटितः' ऊर्द्ध द्विधाकृतः, 'छिन्नः' मृगापुत्रीतिर्यक् खण्डितः, 'उत्कृतः' त्वगपनयनेन ॥ 'बाधितः' पीडितः 'बद्धरुद्धश्च' तत्र रुद्धः-बहिःप्रचारनिषेधनेन । याख्यम'गलैः' बडिशैः मकरैः-मकररूपैः परमाधार्मिकैः जालैश्च-प्रतीतैः अनयोर्द्वन्द्वः । “उल्लितो" त्ति उल्लिखितः गलैः, ध्ययनम्। पाटितो मकरैः, गृहीतश्च जालैः, मारितश्च सर्वैरपि ॥ वीन् दशन्तीति विदंशकाः तैः श्येनादिभिः 'जालैः' तथाविध|बन्धनैः "लेप्पाहि" ति 'लेपैः' वज्रलेपादिभिर्गृहीतः, विदंशकैः 'लग्नश्च' श्लिष्टः, लेपैर्बद्धो जालैारितश्च सर्वैरपि ।
मृगापुत्र
वक्तव्यता। 'कुट्टितः' सूक्ष्मखण्डीकृतः चपेटा-मुष्ट्यादिभिः 'कुमारैः' अयस्कारैरय इव धनादिभिरिति गम्यते, 'ताडितः' आहतः कुट्टितः छिन्नः 'भिन्नः' खण्डीकृतः 'चूर्णितः' श्लक्ष्णीकृतः ।। 'कलकलयन्ति' अतिक्काथतः कलकलाशब्दं कुर्वन्ति ॥ तव प्रियाणि मांसानि 'खण्डानि' खण्डरूपाणि 'सोल्लगानि' भटित्रीकृतानीति स्मारयित्वेति शेषः ॥ 'सुरादीनि' मद्यविशेषाः, अत्राऽपि स्मारयित्वेति शेषः ॥ "निच्चमि"त्यादि नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम् । अत्र च 'भीतेन' उत्पन्नसाध्वसेन 'स्तेन' उद्विग्नेन 'दुःखितेन' जातविविधदुःखेन व्यथितेन च' कम्पमानसकलोपाङ्गतया चलितेन, तीब्राः-अनुभागतोऽत एव चण्डाः-उत्कटाः प्रगाढाः-गुरुस्थितिकास्तत एव 'घोराः' रौद्राः 'अतिदुःसहाः' अत्यन्तदुरध्यासास्तत एव महाभयाः 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि चैतानि, इह च वेदना इति प्रक्रमः, कथं पुनस्तासां तीब्रादिरूपत्वम् ? इत्याह-"जारिसे"त्यादि । न केवलं नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वास्वपि गतिषु इति । एतदेवाहसर्वभवेषु असातावेदना वेदिता मया निमेषान्तरमात्रमपि यत् साता नास्ति वेदना, वैषयिकसुखस्येाद्यनेकदुःखानुविद्धत्वेन असुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्याऽयमाशयः-येनैवं मया दुःखान्यनुभूतानि सोऽहं कथं तत्त्वतः