________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२६२॥
XCXCXCXBXCXBXCXXCXXOX)
सर्वे ये आरम्भाः- द्रव्योत्पादनव्यापारास्तत्परित्यागः ॥ सन्निधिः - घृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयः ॥ 'ताडना' करादिभिराहननम्, 'तर्जना' अङ्गुलिभ्रामणादिरूपा, 'वध' लकुटादिप्रहारः ॥ कपोताः| पक्षिविशेषास्तेषामियं कापोती इयं वृत्तिः, यथा हि ते नित्यशङ्किताः कणकीटादिग्रहणे प्रवर्त्तन्ते एवं भिक्षुरपि एषणादोषशङ्कयैव भिक्षादौ प्रवर्त्तते । यच्च इह ब्रह्मत्रतस्य पुनर्दुर्द्धरत्वाभिधानं तद् अस्यातिदुष्करत्वख्यापनार्थम् ॥ उपसंहार माह - 'सुखो - चितः' सुखयोग्यः, "न हु सि" त्ति नैव 'असि' भवसि 'प्रभुः' समर्थः, “अणुपालिय” त्ति अनुपालयितुम् ॥ अप्रभुत्व| मेवोदाहरणैः समर्थयितुमाह – 'गुणानां ' यतिगुणानां 'तुः' पूरणे 'महाभरः' महासमूहो यो दुर्वहः स वोढव्य इति शेषः ॥ आकाशे गङ्गास्रोतोवत् दुस्तर इति योज्यते, लोकरूढ्या चैतदुक्तम् । तथा 'प्रतिस्रोतोवत्' प्रतिस्रोत इव शेषनद्यादौ दुस्तरः, बाहुभ्यां "सागरो चेव" त्ति सागरवच्च दुस्तरो यः स तरितव्यो गुणोदधिः ॥ " वालुयाकबलो चेव" त्ति 'चः ' पूरणे, 'इव' औपम्ये, एवमुत्तरत्राऽपि, 'निरास्वाद : ' नीरसः ॥ अहिरिव एकान्तः - निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे दृशा अन्यत्र तु बुद्ध्योपलक्षितं चारित्रं दुष्करम्, यवा लोहमया इव चर्वयितयाः, | किमुक्तं भवति ? — लोहमययवचर्वणवत् सुदुष्करं चारित्रम् | "निहुयं निस्संकं" ति 'निभृतं निश्चलं 'निःशङ्कं' शरीरादिनि| रपेक्षम् ॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्या अतो भुङ्गेत्यादि इति विंशतिसूत्रार्थः ॥ २४-२५-२६-२७-२८-२९-३०| ३१-३२-३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३ ॥ सम्प्रति तद्वचनानन्तरं यद् मृगापुत्र उक्तवांस्तदाहसो बिंतऽम्मापियरो !, एवमेयं जहाफुडं । इह लोए निष्पिवासस्स, नत्थि किंचि वि दुष्करं ॥ ४४ ॥ | सारीर माणसा चेव, वेयणाओ अनंतसो । मए सोढाउ भीमाओ, असई दुक्ख भयाणि य ॥ ४५ ॥ जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि यः ॥
४६ ॥
एकोनविंशं मृगापुत्री
याख्यम
ध्ययनम् ।
मृगापुत्र
वक्तव्यता ।
॥ २६२ ॥