________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २६० ॥
'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' पूरणे, “दोंगुंदुगो चेव” त्ति 'चः' पूरणे, दोगुन्दुगे इव, दोगुन्दुगाश्च त्रायस्त्रिंशा देवाः, 'नित्यं भोगपरायणा दोगुन्दुगाः' इति भण्णंति ॥ “ मणिरयणकोट्टिमतले" त्ति मणिरत्रैरुपलक्षितं कुट्टिमतलं यस्मिन् स तथा तस्मिन्, “पासायालोयणे” त्ति 'प्रासादावलोकने' प्रासादगवाक्षे || "अह तत्थ अइच्छंतं" ति 'अथ' अनन्तरं 'तत्र' तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणं संयतं, श्रमणस्य शाक्यादेरपि सम्भवात् तद्व्यवच्छेदार्थं संयतग्रहणम् । तपश्च- अनशनादि नियमाश्च - द्रव्याद्यभिग्रहाः संयमश्च प्रतीतस्तान् धारयतीति तपोनियमसंयमधरस्तम्, अत एव शीलम् - अष्टादशशीलाङ्गसहस्ररूपं तेनाऽऽन्यं शीलाढ्यम्, तत एव गुणानां - ज्ञानादीनाम् आकर इवाऽऽकरस्तम् ॥ तं "देहइ" त्ति पश्यति दृष्ट्या "अणिमिसाए उ" त्ति अनिमिषयैव, व 'मन्ये' जाने ईदृशं रूपं 'दृष्टपूर्व' पूर्वमप्यवलोकितं मया 'पुरा' पूर्वजन्मनि ? ॥ शेषं प्रतीतमेवेति सूत्राष्टकार्थः ॥ १-२-३-४-५-६-७-८ । सम्प्रति यदसौ उत्पन्नजातिस्मरणः कृतवांस्तदाह
विसएहिं अरज्जतो, रज्जंतो संजमम्मि य । अम्मापियरं उवागम्म, इमं वयणमडवी ॥ ९ ॥ व्याख्या – “विसएहिं” ति विषयेषु 'अरजन्' अभिष्वङ्गमकुर्वन् 'रजन्' रागं कुर्वन् संयमे, 'च' पुनरर्थे, अम्बा - पितरौ उपागम्येदं वचनमब्रवीदिति सूत्रार्थः ॥ ९ ॥ किं तद्ब्रवीत् ? इत्याह
सुयाणि मे पंच महवयाणि, नरएस दुक्खं च तिरिक्खजोणिसु । निविणकामो मि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो ! ॥ व्याख्या— श्रुतानि मे पञ्च महाव्रतानि नरकेषु दुःखं च तिर्यग्योनिषु च चस्य गम्यमानत्वाद् उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किम् ? इत्याह - ' निर्विण्णकामः' निवृत्तामिलाषोऽस्मि अहम्, कुत: ? महार्णव इव महार्णवस्तस्मात्,
१० ॥
एकोनविंशं मृगापुत्री
याख्यम
ध्ययनम् ।
मृगापुत्र
वक्तव्यता ।
॥ २६० ॥