SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ द्वितीयबल देवस्य विजयनानो वक्तव्यता। नन्दनोऽपि च गृहीतश्रामण्यः समुत्पादितकेवलज्ञानः पञ्चषष्टिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः। षडिंशतिर्धषि चानयोर्देहप्रमाणमासीदिति ॥. | "तहेव" सूत्रम् । तथैव 'विजयः' द्वितीयबलदेवः “आणढाकित्ति" त्ति आनष्टा-समस्तकलङ्कविकलतया सामस्त्येनाऽपगता अकीर्तिः-अश्लाघा यस्य स आनष्टाकीतिः, प्राकृतत्वात् सिलोपः। "पवई" त्ति प्राब्राजीत् , राज्यं गुणैः समृद्धं-सम्पन्नं गुणसमृद्धम् , तुशब्दस्याऽपिशब्दार्थत्वाद् व्यवहितसम्बन्धाच्च गुणसमृद्धमपि, “पयहित्तु" प्रहाय महायशाः। तथाहि____ असौ द्वारकावत्यां ब्रह्मराजस्य सुभद्रायाश्च राज्याः पुत्रत्वेनोत्पद्यौमापत्यद्वि पिष्टवासुदेवज्येष्ठसो दर्यत्वेन सम्भूय द्विसप्ततिवर्षशतसहस्रायुष्कवासुदेवमरणानन्तरमङ्गीकृत्य श्रामण्यमुत्पादितकेवलज्ञानः पश्चसप्ततिवर्षशतसह स्राणि सर्वायुरतिवाह्य निर्वृतः । सप्ततिर्धनूंषि देहमानमस्याऽजनीति । एतौ चावश्यकनियुक्त्यभिहित नामोहेखेनोत्प्रेक्ष्य व्याख्यातौ । अथाऽन्यौ कौचिदेतौ प्रतीतावागमज्ञानाम् , ततस्तावेव व्याख्येयौ ॥ "तहेवुग्गं" सूत्रम् । तथैवोमं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिः 'आदाय' गृहीत्वा शिरसेव शिरसा शिरःप्रदानेनैव जीवितनिरपेक्षमित्यर्थः, 'श्रियं' भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः। तथाहि तेणं कालेणं तेणं समएणं हथिणाउरे नयरे होत्था। तत्थ णं बले नाम राया। तस्स णं पभावती नाम महा देवी । अन्नया णं सा अद्धरत्तसमयंसि पवरसयणिज्जंसि उवगया ससिसंखसेयं उरालागिई सीहं सुमिणे पासित्ता णं पडिबुद्धा । तए णं सा हट्ठतुट्ठा जेणेव बलस्स रन्नो सयणिजे तेणेव उवागच्छइ । तं सुमिणगं साहेइ । तए णं से बले राया तं सुमिणं सोचा हट्ठतुढे एवं वयासी-कल्लाणे णं तुमे देवी! सुमिणे दिहे, अत्थलाभो रजलाभो भोगलाभो देवाणु महाबल राजस्य वक्तव्यता।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy