SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्रीअरनाथ चक्रिणो. वक्तव्यता। भरतः चक्रवर्तिभोगानुत्तमान् बुभुजे, तीर्थप्रवर्तनसमये च निष्क्रम्य षोडश वर्षाणि च विहृत्योपविहारेण केवलज्ञान- मुदपादयत् । देवाश्च समवसरणमकार्षुः । प्रवाजिताश्च भगवता गणधराः। केवलिपर्यायेण च विहृत्य प्रभूतकालं सम्मेतगिरिशिखरे मोक्षमगमत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि |च सप्तशतानि वर्षाणां प्रत्येकमभवत्तस्य तीर्थकृतः ॥ ___“सागर" सूत्रं सुगमम् । नवरं "अरयं पत्तो" त्ति रजसः-कर्मणोऽभावोऽरजः तत्प्राप्तः प्राप्तो गतिमनुत्तराम् । तथाहि गजपुरे नगरे सुदर्शनस्य राज्ञो देव्याश्च राज्याः पुत्रत्वेनोत्पद्य सुरपतिनिर्वतितजननमहोत्सवो जननी स्वप्ने रत्नारमपश्यदिति प्रतिष्ठितअरनामा क्रमेणासादिततारुण्यो वितीर्णपितृराज्यः सम्प्राप्तचक्रवर्तिलक्ष्मीकः प्रभूतकालोपभुक्ताऽनुत्तरकामभोगो धर्मचक्रवर्त्तित्वं चिकीर्षुर्जरत्तृणमिव 'महापरिग्रहारम्भहेतुर्भवाम्भोधिभ्रमणनिबन्धनं चेदमिति बुद्ध्या परित्यज्य राज्यमङ्गीकृत्य श्रामण्यं वर्षत्रयेण चोत्पाद्य केवलज्ञानं प्रवर्तिततीर्थो भव्यसत्त्वप्रतिबोधननिरतः प्रतिपालितकेवलिपर्यायः सम्मेतगिरी मोक्षमगच्छत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये चैकविंशतिवर्षसहस्राण्यतिगतानि अस्य भगवत इति ॥ __ "चइत्ता" सूत्रं सुगमम् । चरितं चेदम्___ इहेव जंबुद्दीवे दीवे भारहे वासे कुरुखेत्ते हत्थिणारं नयरं । तत्थ य रिसहसामिवंसप्पसूतो पउमुत्तरो नाम | राया, तस्स जाला नाम महादेवी साविया, तीए सीहसुमिणसूइतो विण्हुकुमारो नाम पुत्तो, तहा चोदसमहासुमिणसूहतो बीओ महापउमो नाम । वडिया ते दो वि देहोवचएणं कलाकलावेण य । स 'जिगीसो' त्ति पउमोत्तरेण कओ ****XXXXXXX XOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy