SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ध्ययन सूत्रस्य ॥२॥ XOXOX “श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥ ३ ॥ "शोधयतु बृहदनुग्रहबुद्धिं मयि विधाय विज्ञजनः । तत्र च मिध्यादुष्कृतमस्तु कृतमसङ्गतं यदिह ॥ ४ ॥ " अणहिलपाटकनगरे, दोहडिसच्छ्रेष्टिसत्कवसतौ च । सन्तिष्ठता कृतेयं, नवेकेर हेरेवत्सरे चैव ॥ ५ ॥” इत्येतेभ्यः स्पष्टार्थेभ्यः पद्येभ्यः प्रस्तुतवृत्तिकृतां श्रीमतां नेमिचन्द्राचार्याणां स्पष्टमेव सत्तादि प्रतीयते । तत्र सत्ता तु अमीषामाचार्याणां प्रशस्त्यन्तिमपद्योक्ताभ्यां वृत्तिकरणस्य नगर-कालाभ्यां विक्रमार्कीयस्य द्वादशशतकस्य पूर्वार्धादर्वाक् स्फुटैव । एते ह्याचार्याः प्राचुर्येणाऽणहिलपत्तने दोहडिश्राद्धवसतौ स्थितवन्त इत्यपि प्रतीयते, यतस्तत्र स्थितैरमीभिः प्रथममेषा वृत्तिः कृता एकोनत्रिंशदधिके एकादशशते विक्रमसंवत्सरे ( ११२९ ) । २ तदनु प्राकृतपद्यात्मकं श्रीमहावीरचरित्रं द्वितीयं ग्रन्थरत्नं तन्नगरे तच्छ्रेष्टिसत्कोपाश्रय स्थैरेवामीभिः कृतमेकचत्वारिंशदधिके एकादशशतके ( ११४१) वैक्रमीये । तथा च श्रीमहावीरचरित्रान्तर्गतान्तिमगाथायुगलम् - " अणहिलवाडपुरम्मी, सिरिकन्ननराहिवम्मि विजयंते । दोहट्टिकारियाए, बसहीए संठिएणं च ॥ ८४ ॥ वाससयाणं एकारसह विक्कमनिवस्स विगयाणं । अगुयालीसे संवच्छरम्मि एयं निबद्धं ति ॥ ८५ ॥” अनेन श्रीवीरचरित्रप्रशस्तिगतगाथायुग्मेनास्य चरित्रस्य निर्माणकालः स्पष्ट एव । एतच्चरित्रमपि श्रीमद्भिर्नेमिचन्द्रसूरिभिः श्रीउत्तराध्ययनवृत्तेर्विरचनानन्तरं ततो विहृत्य पुनरागत्य तत्र स्थितैरेव व्यधायीत्यपि निश्चीयते । यत्पुनः श्रीप्रवचनसारोद्धारनामकस्य ग्रन्थरत्नस्य कृतिकारा एते एव पूर्वोदितसूरिवरा इति श्रीसागरानन्दसूरि| भिस्तद्व्रन्थप्रस्तावनायाम लेखि तन्न समीचीनम् । यद्यप्युक्तप्रन्थकारा तन्नामान एव गुरवोऽप्येषां आम्रदेवाः तथाप्येते पूर्वोक्तप्रन्थद्वयकर्तृभ्यो भिन्ना एव तत्प्रशस्तितोऽवसीयन्ते । तथा च तत्प्रशस्तिः लघुवृतेः प्रस्तावना । ॥ २ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy