SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। विदार्वन्तु हंहो मनीषिणः!-परमपवित्रीभूताद्यमङ्गल्याद्यलोकोत्तमाद्यशरण्यपश्चमदेवश्रीमदहद्वक्त्रप्रसूतस्य अनेकलब्धिसम्पन्नश्रुतस्थविरगणधरमुनिग्रथितस्य अनाद्यनिधनापारसंसारपारावारपरिभ्रमणपरिश्रान्तानेकभव्याङ्गिगणसंवेगरङ्गकारणस्य सद्बोधरम्यतापन्नस्य विबुधजनपरमपदसाधनकारणीभूतस्य जैनधर्मैकसारभूतसकलगुणमूलविनयप्रभृतिषट्त्रिंशदध्ययनरूपस्य मूलागमस्य श्रीमत उत्तराध्ययनाभिधानसूत्रस्योपरि अनेकैः सुविहितगीतार्थाचार्यप्रवरैभिन्नभिन्नरचनात्मकतया रचिता भूरयो वृत्तयः सन्ति । ताभ्यः काश्चन मुद्रिता अपि दृष्टिपथमापतन्ति । तन्मध्यगता या पुनर्गम्भीरार्थसङ्कलिता निपुणगणगम्या शिष्यहितानाम्नी बृहद्वृत्तिः थारापद्रगच्छीयैर्वादिवेतालेत्याख्यबिरुदबिभ्राणैः | श्रीमद्भिः शान्त्याचार्यैर्विहिताऽस्ति, ततश्च वृत्तरेषा सुगमप्राकृतगद्यमयकथागर्भिता एकपाठगता सुखबोधानानी लघुवृत्तिरैदंयुगीनमन्दबुद्धिसत्त्वहितकाम्यया समुदृता देवेन्द्रगण्यपरनामधेयैः पूज्यप्रवरैः श्रीमन्नेमिचन्द्राचार्यैर्गुरुभ्रातृश्रीमन्मुनिचन्द्राचार्योपरोधेनेति । सूत्रस्यास्य वृत्तिकारका एते आचार्याः कदाऽभूवन् ? किंगच्छीयाः ? केऽमीषां गुरवः ? कदा कुत्र पवित्रस्थले कृता च वृत्तिरियम् ? इत्येतत्प्रश्ननिर्णयस्तु एतद्वृत्तिप्रान्तप्रशस्त्यवलोकनाद् भवति। तथा चात्र प्रशस्त्यन्तर्गतकतिपयपद्यानामुल्लेखः "विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः, सूरिरुद्योतनामिधः ॥ १॥ "शिष्यस्तस्याऽऽयदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु ॥२॥ XXXXox-oXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy