SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सञ्जय राजर्षेवक्तव्यता। चेचा रट्ट पञ्चइओ, खत्तिए परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥२०॥ |किं णामे ? किंगोत्ते?, कस्सऽहाए व माहणे?। कहं पडियरसी बुद्धे ?, कहं विणीय त्ति वुच्चसी?॥२१॥ | व्याख्या-त्यक्त्वा राष्ट्रं प्रबजितः 'क्षत्रियः' अनिर्दिष्टनामा परिभाषते सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत् , ततश्च्युत्वा क्षत्रियकुलेऽजनि, तत्र च कुतश्चित् तथाविधनिमित्ततः स्मृतपूर्वजन्मा, तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , विहरंश्च सञ्जयमुनिं दृष्ट्वा तद्विमार्थमिदमुक्तवान् यथा ते दृश्यते रूपं 'प्रसन्नं विकाररहितं 'ते' तव 'तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः 'मनः' चित्तम् , अन्तःकलुषितायां हि बहिरप्येवं प्रसन्नताऽसम्भवः॥ तथा किं नामा? किं गोत्रः ? "कस्सऽहाए व"त्ति कस्मै वा अर्थाय 'माहनः' प्रव्रजितः ? 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे 'बुद्धान्' आचार्यादीन् ? कथं विनीत इत्युच्यसे ? इति सूत्रद्वयार्थः ॥ २०-२१ ॥ सञ्जयमुनिराहसंजओ नाम नामेणं, तहा गोत्तण गोयमे । गद्दभाली ममायरिया, विजाचरणपारगा॥ २२॥ व्याख्या-सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति गम्यते । शेषप्रश्नत्रयनिर्वचनमाह-गईभालयो मम आचार्याः 'विद्याचरणपारगाः' श्रुतचारित्रपारगताः । एवं च वदतोऽयमाशयः-यतो गर्दभाल्यभिधानाचार्यैर्जीवघातान्निवर्तितोऽहम् , विद्याचरणपारगत्वाच तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तम् , ततस्तदर्थं माहनोऽस्मि । यथा च तदुपदेशस्तथा गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ॥ २२ ॥ इत्थं विमृश्य तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहकिरियं अकिरियं विणयं, अन्नाणं च महामुणी!। एतेहिं चउहि ठाणेहिं, मेयन्ने किं पभासह १॥२॥ व्याख्या-'क्रिया' अस्तीत्येवंरूपा, प्राकृतत्वाद् नपुंसकनिर्देशः, 'अक्रिया' तद्विपरीता, 'विनयः' नमस्करणादिः,
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy