________________
अष्टादर्श
श्रीउत्तराभ्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधा- ख्या लघुवृत्तिः ।
॥२३०॥
लिङ्गव्यत्ययः प्राग्वत् , तथा 'अज्ञानं' तत्त्वानवगमः, 'चः' समुच्चये, महामुने! 'एतैः' क्रियादिमिश्चतुर्भिः स्थानः | "मेयने" त्ति मेय-ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिमिः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्त्वपरिच्छेदिन इत्यर्थः, संयती'किमिति कुत्सितं "पहासई" त्ति प्रभाषन्ते, विचाराक्षमत्वात् । तथा हि-ये तावत् क्रियावादिनस्तेऽस्तिक्रिया
याख्यमविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसौ इत्यायेकान्तवादमभ्युपगताः, कुत्सितभाषणं
ध्ययनम्। चैतत् , युक्त्या-ऽऽगमबाधितत्वात्। अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्येव, एतच्चासङ्गततरम् , प्रत्यक्षा-8 | दिप्रमाणप्रसिद्धत्वात् तस्य । वैनयिकवादिनस्तु सुर-नृपति-यति-करि-तुरग-गो-महिष्य-ऽजा-ऽश्व-शृगाल-काक-बक
सञ्जयमकरादिनमस्करणात् क्लेशक्षयमभ्युपगताः, अयुक्तं चैतद्, लोकसमयवेदेषु गुणाधिकस्यैव विनयाईत्वेन प्रसिद्धत्वात् ,
राजर्षे तदितरविनयस्य चाशुभफलत्वात् । अज्ञानवादिनस्तु किमात्मादिस्वरूपज्ञानेन?, अपवर्ग प्रत्यनुपयोगित्वात् ज्ञानस्य; केवलं
वक्तव्यता। कष्टं तप एव कार्यम् , नहि कष्टं विनेष्टसिद्धिरिति प्रतिपन्नाः, इदं च दुर्भाषिततरम् , ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् । अतः सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति स्थितमिति सूत्रार्थः ॥ २३॥ न चैतत् स्वामिप्रायेणोच्यते किन्तु
इइ पाउकरे बुद्धे, नायए परिनिबुडे । विजाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥ व्याख्या-'इती'त्येतत् क्रियादिवादिनः कुत्सितं प्रभाषन्त इत्येवंरूपं “पाउकरे" त्ति 'प्रादुरकार्षीत्' प्रकटितवान्, 'बुद्धः' अवगततत्त्वा, ज्ञात एव 'ज्ञातकः' क्षत्रियः, स चेह प्रस्तावाद महावीरः। 'परिनिर्वृतः' कषायानलविध्यापनात् शीतीभूतः विद्याचरणाभ्यां-क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, अत एव 'सत्यः' सत्यवाकू, तथा 'सत्य- ॥२३०॥ पराक्रमः' सत्यवीर्य इति सूत्रार्थः ॥ २४ ॥ तेषां च फलमाह
पडंति नरए घोरे, जे णरा पावकारिणो। दिवं च गई गच्छंति, चरित्ता धम्ममारियं ॥२५॥