________________
xoxoxoxoxox
XX
अथ पापश्रमणीयाख्यं सप्तदशमध्ययनम् ।
व्याख्यातं षोडशमध्ययनम् । अधुना पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः - 'इहाऽनन्तराध्ययने दश ब्रह्मचर्यगुप्तय उक्ताः, ताश्च पापस्थानवर्जनादेवाऽऽसेवितुं शक्यन्ते इति पापश्रमणस्वरूपाभिधानतस्तदेव का कोच्यते ' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रद्वयम् —
जे के उपइए नियंठे, धम्मं सुणेत्ता विणओववन्ने ।
सुदुलहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ १ ॥ सेज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भोत्तु तहेव पाउं ।
जाणामि जं वहइ आउसु ! त्ति, किं नाम काहामि ? सुएण भंते ! ॥ २ ॥
व्याख्या- 'यः कश्चित्' इत्यविविक्षितविशेषः 'तुः' पूरणे, 'प्रब्रजितः ' निष्क्रान्तो निर्ग्रन्थः प्राग्वत् । कथं पुनरयं प्रव्रजितः ? इत्याह- 'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा' निशम्य विनयेन ज्ञानाद्युपचारात्मकेनोपपन्नः - युक्तो विनयोपपन्नः सन् ' सुदुर्लभम् ' अतिशयदुष्प्रापं "लभिउं" ति लब्ध्वा 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रत्र - |जित इत्युक्तं भवति । स किम् ? इत्याह- 'विहरेत्' चरेत् 'पश्चात्' प्रत्रजितोत्तरकालं 'चः' पुनरर्थे विशेषद्योतकः, ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा तथा निद्राविकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्य एवकारार्थत्वाद् यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थः । स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति | प्रेरितो यद्वक्ति तदाह – 'शय्या' वसतिः 'दृढा' वातातपजलाद्युपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे'
पापस्थानवर्जन
वक्तव्यता ।