SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ OXOXOXOXOXOXOXOXXX नसेवी ब्रह्मचारी ? उत नेति ?, अथवा शङ्का-हयादिभिरत्यन्ताऽपहृतचित्ततया विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि XI दश ब्रह्महितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥१॥” इत्यादिरागातुरखचः परिभा- चर्यसमाधिवयतो मिथ्यात्वोदयतः कदाचित् 'तदासेवने यो दोष उक्तस्तीर्थकृद्भिः स दोष एव न भवति' इत्येवंरूपः संशय उत्पद्यते, स्थानानि । 'काङ्क्षा वा' स्याद्यमिलापरूपा, "प्रियादर्शनमेवाऽस्तु, किमन्यदर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणाऽपि चेतसा ?] ॥१॥" इत्याद्यभिधायिका नीलपटादिदर्शनाऽऽग्रहरूपा वा, विचिकित्सा वा' 'किमेतावतः कष्टानुष्ठानस्य फलं भवियति न वा? तद्वरमेतदासेवनमेवाऽस्तु' इत्येवंरूपा 'समुत्पद्येत' जायेत, भेदं वा' विनाशं वा चारित्रस्येति गम्यते लभेत, 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात् , 'दीर्घकालिकं वा दीर्घकालभाविनं, रोगश्च-दाहज्वरादिः आतङ्कश्च| आशुघाती शूलादिः रोगातकं भवेत् , सम्भवति हि रुयाद्यभिलाषातिरेकतोऽरोचकत्वं ततश्च ज्वरादीनि, केवलिप्रज्ञप्ताद् वा 'धर्मात्' श्रुतचारित्ररूपात् समस्ताद् भ्रश्येत् , कस्यचिदतिक्लिष्टकर्मोदयाद् धर्मपरित्यागसम्भवात् । यत एवं 'तस्मादि'त्यादिनिगमनवाक्यं सुगममिति सूत्रार्थः ॥ १॥ उक्तं प्रथमं समाधिस्थानम् । द्वितीयमाह णो इत्थीणं कथं कहेत्ता हवइ से निग्गंथे । तं कहमिति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं रोगायंकं वा हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहेजा ॥२॥ व्याख्या-नो स्त्रीणामेकाकिनीनामिति गम्यते, 'कथा' स्त्रीणां वा सम्बन्धिनी कथां रूपनेपथ्यादिविषयां कथयिता भवति स निर्ग्रन्थः, य एवंविधः स निर्ग्रन्थो न त्वन्य इत्यभिप्रायः। तत् कथमित्यादि पूर्ववदिति सूत्रार्थः ॥२॥ तृतीयमाह XOXOXOXOXOXOXOXOX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy