SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अथ ब्रह्मचर्यसमाधिनामकं षोडशमध्ययनम् । दश ब्रह्मचर्यसमाधिस्थानानि । ___ व्याख्यातं पञ्चदशमध्ययनम् । अधुना षोडशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने भिक्षुगुणा उक्ताः, ते च तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मचर्यगुप्तिपरिज्ञानत इति ता इहाभिधीयन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्यनस्यादिसूत्रम् सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोचा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सदा अप्पमत्ते विहरिज्जा ॥१॥ व्याख्या-श्रुतं मया आयुष्मन् ! तेन भगवता एवं 'आख्यातं' कथितम् , कथम् ? इत्याह-सोपस्कारत्वात् सूत्रस्य यथेति गम्यते, ततो यथा 'इह' प्रवचने 'खलुः' निश्चयेन 'स्थविरैः' गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, कोऽभिप्रायः ? –नैषामियं स्वमनीषिका, किन्तु भगवताऽप्येवमाख्यातं मया श्रुतम् , ततोऽत्र माऽनास्थां कृथाः। तान्येव विशिनष्टि-'ये' इति यानि भिक्षुः 'श्रुत्वा' आकर्ण्य 'निशम्य' अर्थतोऽवधार्य “संजमबहुले” त्ति प्राकृतत्वाद् बहुल:-प्रभूत उत्तरोत्तरस्थानाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलसंवरः पञ्चेन्द्रियाणाम् अत एव 'बहुलसमाधिः' चित्तस्वास्थ्यम् 'गुप्तः' मनोवाकायैः अत एव गुप्तेन्द्रियः, तत एव गुप्तं-नवगुप्तिसेवनाद् ब्रह्मेतिब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा सर्वदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥ १॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy