SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ भिक्षोर्गुणवक्तव्यता। आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च । णो हीलए पिंडं णीरसंतु, पंतकुलाइं परिवए स भिक्खू ॥१३॥ व्याख्या-आयाममेव 'आयामकम्' अवश्रावणं 'चः' समुच्चये, 'एवः' पूरणे, 'यवोदनं च' यवभक्तं 'शीतं' शीतलं सौवीरं च-काञ्जिकं यवोदकं च-यवधावनं सौवीरयवोदकम् , तच 'नो हीलयेत्' धिगिदं किमनेनानिष्टेन ? इति न या निन्देत् , 'पिण्डम्' आयामकादि एव नीरसमपि, तुशब्दस्य अप्यर्थत्वाद् अत एव प्रान्तकुलानि यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ अन्यच्च __ सद्दा विविहा भवंति लोए, दिवा माणुस्सया तहा तिरिच्छा। भीमा भयभेरवा उराला, जो सोचा ण विहेजई स भिक्खू ॥१४॥ व्याख्या-शब्दाः 'विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारा भवन्ति लोके 'दिव्याः' देवसम्ब|न्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिनः, तथा 'तैरश्वाः' तिर्यक्सम्बन्धिनः 'भीमाः रौद्राः, भयेन भैरवाः-अत्यन्त साध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तः, यः श्रुत्वा प्रक्रमात् तानेव शब्दान् 'न व्यथते' धर्मध्यानतो न चलति स | भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता सिंहविहारितायां निमित्तमुक्तम् , सम्प्रति समस्तधर्ममूलसम्यक्त्वस्थैर्यमाह ___ वायं विविहं समिच्च लोए, सहिए खेयाणुगए य कोवियप्पा। पन्ने अभिभूय सबदंसी, उवसंते अविहेडए स भिक्खू ॥१५॥ व्याख्या-वादं विविधं "मुण्डस्य भवति धर्मः, तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि वसतां भवति धर्मः॥१॥” इत्यादिदर्शनान्तराभिप्रायरूपं 'समेत्य' ज्ञात्वा लोके सहितः प्राग्वत्, खेदयत्यनेन कर्मेति
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy