SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ पञ्चदशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच समिक्षु न्द्रीया सुखबोधाख्या लघुवृत्तिः । नामकमध्ययनम् । भिक्षोर्गुणवक्तव्यता। कुरुते, बलक्षोभं न संशयः ॥१॥ गान्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥२॥” इत्यादि । तथा 'स्वप्नं स्वप्नगतं शुभाऽशुभकथनम् , यथा-"गायने रोदनं ब्रूयाद्, नर्त्तने वधबन्धनम् । हसने शोचनं ब्रूयात् , पठने कलहं तथा ॥१॥" इत्यादि । तथा 'लक्षणं' स्त्रीपुरुषादीनाम् , यथा-"चक्खुसिणेहे सुहिओ, दंतसिणेहे य भोयणं मिटुं । तयणेहेण य सोक्खं, नहनेहे होइ परमधणं ॥१॥” इत्यादि । तथा “दंड" त्ति 'दण्डः' यष्टिः, तत्स्वरूपकथनम्-"एगेपवं पसंसंती"त्यादि । तथा 'वास्तुविद्या प्रासादादिलक्षणाभिधायकं शास्त्रम् । तथा 'अङ्गविकारः' |शिरःस्फुरणादिः, तच्छुभाशुभस्वरूपकथनम् , यथा-"सिरफुरणे किर रजमि"त्यादि । तथा स्वरस्य-दुर्गाशिवादिरुतरूपस्य विजयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा-"सामा-सारस-वायस-कोसिय-सियवत्त-रासह-सिवाओ। जंबुय-वसहा वामा, पत्थाणे कज्जसिद्धियरा ॥१॥" इत्यादि । ततो य एताभिर्विद्याभिन जीवति नैता एव जीविकाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ।। ७ ॥ तथा मंतं मूलं विविहं विजचिंतं, वमण-विरेयण-धूम-नेत्त-सिणाणं । आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिवए स भिक्खू ॥८॥ व्याख्या-'मत्रम् ॐकारादिस्वाहापर्यन्तम् 'मूलं' मलिका कोशाभिहितं शरपुङ्खामूलिकादि 'विविध' नानाप्रकारं | 'वैद्यचिन्तां' वैद्यसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्ताम, यथा-"वर्जयेद् द्विदलं शूली, कुष्ठी मांसं ज्वरी ॥२१६॥ ॥२१६॥ "चक्षुःखहे सुखितो, दन्तस्नेहे च भोजनं मिष्टम् । स्वक्त्रेहेन च सौख्यं, नखनेहे भवति परमधनम् ॥1॥" २ “एकपा प्रशंसन्ति"। ३ "शिरःस्फुरणे किल राज्यम्"। "श्यामा-सारस-वायस-कौशिक-शतपत्र-रासम-शिवाः। जम्बुक-वृषभा वामाः प्रस्थाने कार्यसिद्धिकराः ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy