________________
भिक्षोर्गुणवक्तव्यता।
८
देव आस देव
X8XOXOXOXXX
XXXXXXXXXXXXX
वस्त्रशुभाशुभफलयंत्रम्छिन्नं सरंभोमं अंतलिक्खं, सुमिणं लक्षण दंड वत्थुविजं।
अंगवियारं सरस्सविजयं, जे विजाहिं ण जीवई स भिक्खू ॥७॥ व्याख्या-छेदनं छिन्नं वसनदशनादीनां, तद्विषयशुभाऽशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र । छिन्नादिकानि-"अंजण-खंजण-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड़े। तुन्निय-कुट्टिय-पजवलीढे, होइ विवागु सुहो असुहो वा ॥१॥ देवेसु उत्तमो लाभो, माणुस्सेसु य मझिमो । आसुरेसु य गेलन्नं, मरणं जाण रक्खसे ॥२॥ इत्यादि। दैविकादिभागव्यवस्था पुनः-चत्तारि देवयाभागा, दो य भागा य माणुसा । आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो ॥१॥" तथा "सरं" ति स्वरस्वरूपाभिधानम्-"सजं रवइ मऊरो, कुकडो रिसह सरं । हसो रवइ गंधारं, | मज्झिमं तु गवेलए ॥ १॥ तथा-सज्जेण लहइ वित्तिं, कयं च न विणस्सइ । गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो ॥२॥ रिसहेण उ ईसरियं, सेणावचं धणाणि य ।" इत्यादि । तथा भूमौ भवं भौम' भूकम्पादिलक्षणम् , यथा"शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥१॥” इत्यादि । तथा अन्तरिक्षम्आकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिलक्षणम् , यथा-"कपिलं सस्यघाताय, माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्ण
१ “अञ्जन-खञ्जन-कर्दमलिप्ते, मूषकभक्षितेऽग्निविदग्धे । तूर्णित-कुट्टित-पर्यवलीढे, भवति विपाकः शुभोऽशुभो वा ॥१॥ देवेषु उत्तमो लाभो, मानुष्येषु च मध्यमः। आसुरेषु च ग्लान्यं, मरणं जानीहि राक्षसे ॥२॥ २ चत्वारो देवताभागा, द्वौ च भागी च। मानुपौ । आसुरीयौ च द्वौ भागौ, मध्ये वस्त्रस्य राक्षसः॥१॥"३"षड्ज रौति मयूरः, कुर्कुट ऋषभं स्वरम् । हसो रौति गान्धारं, मध्यमं तु गवेलकः ॥१॥ पइजेन लभते वृत्ति, कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च, नारीणां भवति वल्लभः॥१॥ ऋषभेण स्वैश्वय, सेनापत्यं धनानि च ।"