SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२१५॥ व्याख्या-'प्रान्तम्' अधमं शयनासनम् , उपलक्षणत्वाद् भोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतोष्णं चस्य पश्चदशं गम्यमानत्वात् "विविधं च' नानाप्रकारं दंशमशकं प्राप्येति शेषः, सर्वत्र च समाहारद्वन्द्वः, अव्यग्रमना असम्प्रहृष्टो सभिक्षुयः कृत्स्नमध्यास्ते स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ अपरञ्च नामकमणो सक्कियमिच्छती न पूर्य, णो वि य वंदणगं कुओ पसंसं ?। ध्ययनम्। से संजए सुबए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ भिक्षोर्गुणव्याख्या-'नो' नैव 'सत्कृतं' सत्कारम् अभ्युत्थानाऽनुगमादिरूपम् 'इच्छति' अभिलषति, न 'पूजां वस्त्रादिसपर्याम् , वक्तव्यता। 'नोऽपि च' नैव च 'वन्दनकं' द्वादशावादिरूपम् , कुतः 'प्रशंसां' निजगुणोत्कीर्तनरूपाम् ?, नैवेच्छ तीत्यभिप्रायः । | 'स' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः 'सुव्रतः' शोभनव्रतः 'तपस्वी' प्रशस्यतपाः 'सहितः' पूर्ववद्, आत्मानं कर्मविगमात् शुद्धरूपं गवेषयति-मृगयति इति आत्मगवेषको यः स भिक्षुरिति सूत्रार्थः॥५॥ तथा जेण पुण जहाइ जीवियं, मोहं वा कसिणं णियच्छई। नरनार पजहे सया तवस्सी, ण य कोऊहलं उवेइ स भिक्खू ॥६॥ व्याख्या-येन' हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः 'जहाति' त्यजति 'जीवितं' संयम-2 जीवितं 'मोहं वा' मोहनीयं कषायनोकषायादिरूपं 'कृत्स्नं समस्तं 'नियच्छति' बध्नाति, तदेवंविधं नरश्च नारी च ॥२१५॥ नरनारि 'प्रजह्यात्' त्यजेद् यः सदा तपस्वी, न च 'कुतूहलं' रुयादिविषयमुपैति स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ सम्प्रति | पिण्डविशुद्धिद्वारेण सभिक्षुत्वमाह REXOXOXOXOXOXOXOXOXOXCXE
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy