SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ | मिक्षोर्गुणवक्तव्यवा। राओवरयं चरेज लाढे, विरए वेदवियाऽऽयरक्खिए। पन्ने अभिभूय सबदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥२॥ व्याख्या -“रागोवरयं" ति उपरतरागो यथा भवत्येवं 'चरेत्' विहरेत् “लाढे" त्ति 'लष्ट' सदनुष्ठानतया प्रधानः 'विरतः' असंयमाद् निवृत्तः 'वेदवित्' आगमवेदी "आयरक्खिय" त्ति रक्षितो दुर्गतेः तत्विसदनुष्ठानवर्जनत o आत्मा येन स रक्षितात्मा, परनिपातः सर्वत्र प्राकृतत्वात् । 'प्रज्ञः' हेयोपादेयबुद्धिमान् अभिभूय परीषहोपसर्गानिति XIगम्यते, सर्व-गम्यमानत्वात् प्राणिगणं पश्यति-आत्मवत् प्रेक्षते सर्वदर्शी यः कस्मिंश्चित् सचित्तादिवस्तुनि न मूछितः |स भिक्षुरिति सूत्रार्थः ॥२॥ अन्यच्च अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे णिच्चमायगुत्ते । अबग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद् विदित्वा' स्वकृतकर्मफलमेतदिति मत्वा "धीरः' अक्षोभ्यः मुनिश्चरेद् अप्रतिबद्धविहारेणेति गम्यते, "लाढि" त्ति प्राग्वत् 'नित्यं सदा "आयगुत्ते" त्ति गुप्तः-रक्षितोऽसंयमस्थानेभ्य आत्मा | येन स तथा, अव्यग्रम्-अनाकुलम् असमञ्जसचिन्तोपरमतो मनो यस्य सोऽव्यग्रमनाः, 'असम्प्रहृष्टः' आक्रोशदानादिषु न प्रहर्षवान् । यथा कश्चिदाह-"कश्चित्पुमान् क्षिपति मां परिरूक्षवाक्यः, श्रीमरक्षमाभरणमेत्य मुदं व्रजामि ।" इत्यादि । प्रकृतोपसंहारमाह-यः कृत्स्नं समस्तमाक्रोशवधम् 'अध्यास्ते' सहते स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ किञ्च पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । अवग्गमणे असंपहिहे, जे कसिणं अहियासए स भिक्खू ॥४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy