________________
अथ द्वितीयं परीषहाध्ययनम् ।
व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम् , इदानीं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्च उक्तः, स च किं स्वस्थावस्थैरेव समाचरितव्यः ? उत परीषहमहासैन्यव्याकुलितमनोभिरपि ? उभयावस्थैरपीति ब्रूमः । अथ क एते परीषहाः ? इत्यनेन सम्बन्धेनाऽऽयातस्यास्य परीषहाऽध्ययनस्य व्याख्या प्रस्तूयते । तस्य चेदमादिसूत्रम्
सयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोचा नचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहण्णेजा ॥ __ व्याख्या-'श्रुतम्' आकर्णितं 'मे' मया, 'आयुष्मन् !' इति शिष्यामश्रणम् , इदश्च सुधर्मस्वामी जम्बूस्वामिनं| प्रत्याह-'तेने ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमप्रैश्वर्यादियुक्तेन एवं' अमुना वक्ष्यमाणप्रकारेण | 'आख्यातं' सकलजन्तुभाषामिव्याप्त्या कथितम् । उक्तञ्च-देवा देवी नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्चीं, मेनिरे भगवद्गिरम् ।। १॥ किमाख्यातम् ? अत आह-'इहैव' प्रवचने खलुशब्दस्यावधारणार्थत्वाद् द्वाविंशतिः परीपहाः सन्तीति गम्यते । यदि वा “आवसंतेणं” ति मयेत्यस्य विशेषणम् , ततः 'आवसता' आगमोक्तमर्यादया वसता
DXOXOXOXOXOXOXOXOXOXOXOXOJ