________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
द्वितीय परीपहाध्ययनम्।
॥१६॥
गुरुकुलवास इति गम्यते, अनेन गुरुकुलवास एव सर्वथा वस्तव्यमित्याह । उक्तश्च-नाणस्स होइ भागी, थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ २॥" यदुक्तं 'भगवताऽऽख्यातं द्वाविंशतिः परीषहाः सन्ति' इति तत्र किं भगवताऽन्यतः पुरुषविशेषात् स्वतो वा अवगताः ? इत्याह-श्रमणेन' तपस्विना 'भगवता' महावीरेण वर्द्धमानस्वामिना 'काश्यपेन' काश्यपगोत्रेण “पवेइय"त्ति सूत्रत्वात् प्रकर्षेणोत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन ज्ञाताः । ते च कीदृशाः ? इत्याह-यान् परीषहान् 'भिक्षुः साधुः 'श्रुत्वा' आकर्ण्य गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुध्य 'जित्वा' पुनः पुनरभ्यासेन परिचितान् विधाय 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य 'भिक्षा|चर्यायां' भिक्षाटने 'परिव्रजन्' समन्ताद् विचरन् 'स्पृष्टः' आश्लिष्टः प्रक्रमात् परीषहैरेव, 'नो' नैव 'विनिहन्येत' संयमशरीरोपघातेन विनाशं प्राप्नुयात् , उदीयन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ब्रहणम् । उक्तञ्च-"भिक्खायरियाए बावीसं परीसहा उदीरिजंति" इति । उक्त उद्देशः, पृच्छामाहकयरे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया। जे भिक्खू सोचा णचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेजा?॥ व्याख्या-कतरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः, 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति । निर्देशमाहइमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया । जे भिक्खू सोचा णचा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेज्जा ॥ , "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं, गुरुकुलवासं न मुञ्चन्ति ॥ २॥"