________________
पण्णाम्
इषुकारराजादीनां वक्तव्यता।
व्याख्या-'मा' निषेधे, 'हुः' वाक्यालङ्कारे, त्वं 'सोदर्याणां भ्रातृणाम् , उपलक्षणं शेषस्वजनानां भोगानां च "संभरे"| त्ति अस्मार्षीः, "जुन्नो व हंसो" त्ति जीर्णो हंस इव प्रतिस्रोतोगामी सन् , किमुक्तं भवति ?-यथाऽसौ नदीस्रोतसि प्रतिकूलगमनम् अतिकष्टमारभ्याऽपि तत्राशक्तः पुनरनुस्रोत एव धावति । एवं भवानपि संयमभारं वोढुमसमर्थः पुनः सोदरादीन भोगांश्च स्मरिष्यसि, ततो भुङ भोगान् मया 'समान' सार्द्धम् , "दुक्खं खु" दुःखमेव भिक्षाचर्या 'विहारः' प्रामादिष्वप्रतिबद्धविहारः, उपलक्षणश्चैतत् शिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ पुरोहित आह
जहा य भोई ! तणुयं भुयंगो, णिम्मोअणिं हेच्च पलेइ मुत्ते । एमेए जाया पयहंति भोगे, ते हं कहं णाणुगमेस्समेको ? ॥ ३४ ॥ छिंदितु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय ।
धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ३५ ॥ । व्याख्या-यथा च हे भवति! 'तनुजां' देहजातां भुजङ्गः 'निर्मोचनीं' निर्मोकं हित्वा 'पर्यति' समन्ताद् गच्छति | 'मुक्तः' निरपेक्षः “एमेए" त्ति एवमेतौ जातौ 'प्रजहीतः' त्यजतो भोगान् । ततः किम् ? इत्याह-'तो' जातौ अहं कथं न | 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः ?, किं मम असहायस्य गृहवासेनेति भावः ॥ तथा छित्त्वा जालम् 'अबलमिव' दुर्बलमिव बलीयोऽपीति गम्यते, रोहिताः' रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः। 'यथा' इति दृष्टान्तोपन्यासे, तथेति गम्यते, ततस्तथा जालरूपान् कामगुणान् प्रहाय, धुरि वहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारनिर्वहणलक्षणं येषां ते तथा, 'तपसा' अनशनादिना 'उदाराः' प्रधानाः 'धीराः' सात्त्विकाः 'हुरिति यस्माद्
२०अ०३६