________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२१० ॥
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया ।
भुंजामु ता कामगुणे पकामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१ ॥
व्याख्या – 'सुसम्भृताः' सुष्ठु संस्कृताः कामगुणाः 'इमे' एते 'ते' तव, तथा 'सम्पिण्डिताः' पुञ्जीकृताः “अग्गरस” त्ति चस्य गम्यमानत्वाद् अम्याः - प्रवराः रसाश्व - मधुरादयः प्रभूताः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानम् अतिगृद्धिहेतुत्वात्, “भुंजामो” तिच भुञ्जीमहि 'तत्' तस्मात् कामगुणान् 'प्रकामम्' अतिशयेन, 'पश्चात्' वृद्धावस्थायां गमिष्यामः 'प्रधानमाग' प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ॥ ३१ ॥ पुरोहितः प्राह -
भुत्ता रसा भोइ ! जहाति णो वओ, ण जीवियट्ठा पयहामि भोए । लाहं अलाहं च सुहं च दुक्खं, संचिक्खमाणो चरिसामि मोणं ॥ ३२ ॥
व्याख्या – 'भुक्ताः' सेविता रसा उपलक्षणत्वात् शेषकामगुणाश्च, “भोइ” त्ति हे भवति ! आमन्त्रणमेतत्, 'जहाति' | त्यजति 'नः' अस्मान् ‘वयः' प्रक्रमाद् इष्टक्रियाकरणक्षमम्, उपलक्षणत्वात् जीवितं च ततो यावद् नैतत् त्यजति तावत् | प्रव्रजाम: - जन्मान्तरभाविभोगार्थं दीक्षां ग्रहीष्यामः । ते चात्रैव स्वाधीनाः किं प्रव्रज्यया ? इति प्रेरणायामाह - न 'जीवितार्थम्' असंयमजीवितार्थं प्रजहामि भोगान् किन्तु लाभमलाभं च, सुखम् चस्य मिन्नक्रमत्वाद् दुःखं च “संचिक्खमाणो” त्ति · ‘समतया ईक्षमाणः' लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन् इत्यभिप्रायः, चरिष्यामि 'मौनं' मुनिभावम्, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ वासिष्ठ्याह
माहू तुमं सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया बिहारो ॥ ३३ ॥
चतुर्दश इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥२१० ॥