SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ षण्णाम् इषुकारराजादीनां वक्तव्यता SEXDXOXO-KO-KO-XOXOXOXOXO-KO- XX यदसकृन्न पुराऽनुभूतम् । कास्ताः श्रियो न खलु या बहुशोऽप्यवाप्ता-श्वेतस्तथाऽपि तव वर्द्धत एव वाञ्छा ॥१॥" अतः श्रद्धा-अभिलाषः तया क्षम-युक्तं श्रेय इत्यर्थः, अनुष्ठानं कर्तुमिति शेषः, “णे" त्ति 'नः' अस्माकं विनीय' अपनीय 'राग' स्वजनाऽभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २७-२८ ॥ इदं चाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणीमन्विदमाह पहीणपुत्तस्स हु णत्थि वासो, वासिहि ! भिक्खायरियाइ कालो। साहाहि रुक्खो लहए समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९॥ पक्खाविहूणो व जहेह पक्खी, भिच्चबिहूणो व रणे णरिंदो। विवन्नसारो वणिउ व पोए, पहीणपुत्तो मि तहा अहं पि ॥ ३०॥ व्याख्या-प्राकृतत्वेन पुत्राभ्यां प्रहीण:-त्यक्तो यस्तस्य 'हुः' पूरणे, नास्ति वासो मे गृहे इति गम्यते, 'हे वासिष्टि !' वसिष्ठगोत्रे! भिक्षाचर्यायाः, उपलक्षणं चैतद् व्रतग्रहणस्य, कालो वर्तत इति शेषः। किमित्येवम् ? अत आह-शाखाभिवृक्षो लभते 'समाधि स्वास्थ्यम् , छिन्नाभिः शाखाभिः 'तमेव' वृक्षं "खा" ति स्थाणुं जनो व्यपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणादिना समाधिहेतवः एवं ममाऽप्येतौ सुतौ, अतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति ॥ किञ्च-पक्षविहीनो 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रः, विपन्नसारः' | विनष्टहिरण्यादिद्रव्यो वणिगू वा 'पोते' प्रवहणे भिन्ने इति गम्यते व्यसनभागितया विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपीति सूत्रद्वयार्थः ॥ २९-३० ॥ वासिष्ठ्याह
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy