________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २०९ ॥
XX
धर्म पुनः कुर्वतः सफलाः, धर्मफलत्वात् जन्मनः । न च व्रतं विना धर्म इत्यतः तत् प्रतिपत्स्याव इति सूत्रद्वयार्थः ॥ २४-२५ ॥ इत्थं तद्वचनेन प्रतिबुद्धो भृगुराह -
एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुया । पच्छा जाया ! गमिस्सामो, भिक्खमाणा कुले कुले ॥ व्याख्या – 'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैवाऽऽसित्वा "दुहओ” त्ति 'द्वये' आवां युवां च सम्यक्त्वसंयुताः, उपलक्षणत्वाद् देशविरत्या च संयुताः 'पश्चात् ' यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं ग्रामनगरादिषु मासकल्पादिक्रमेणेति शेष:, ' भिक्षमाणाः' याचमानाः पिण्डादिकमिति गम्यते 'कुले कुले' गृहे गृहे अज्ञातोञ्छवृत्त्येत्यर्थः इति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः -
जस्सऽत्थि मचुणा सक्खं, जस्स वऽत्थि पलायणं ।
जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया ॥ २७ ॥ अज्जेव धम्मं पडिवज्जयामो, जहिं पवन्ना ण पुणन्भवामो ।
अणागयं णेव य अस्थि किंचि, सद्धाखमं ने विणइत्तु रागं ॥ २८ ॥
व्याख्या - यस्यास्ति मृत्युना सह 'सख्यं' मैत्री, यस्य वाऽस्ति 'पलायनं' नाशनं मृत्योरिति प्रक्रमः, तथा यो जानीते यथाऽहं न मरिष्यामि “सो हु" स एव 'काङ्क्षति' प्रार्थयते ' श्वः' आगामिनि दिने स्याद् इदमिति गम्यते ॥ अतोऽद्यैव 'धर्म' यतिधर्मं प्रतिपद्यामहे, “जहिं" ति आर्षत्वाद् यं धर्मं 'प्रतिपन्नाः ' आश्रिताः "न पुणब्भवामो" त्ति 'न पुनर्भविष्यामः' न पुनर्जन्म प्राप्स्यामः, जन्ममरणाद्यभावहेतुत्वाद् धर्मस्य । किं च – 'अनागतम् ' अप्राप्तं नैव चास्ति 'किश्चिद्' अतिसुन्दरमपि वस्तु, सर्वभावानामनन्तशः प्राप्तपूर्वत्वात् । उक्तञ्च – “का सा गतिर्जगति या शतशो न याता, किं तत् सुखं
चतुर्दशं
इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥ २०९ ॥