________________
BXOXOXOXOXOXOXOXOXOXXX
पंचालराया वि य बंभदत्तो, साहुस्स तस्सा बयणं अकाउं।
चित्रअणुत्तरे भुंजिय कामभोए, अणुत्तरे सो नरए पविट्ठो॥ ३४॥
सम्भूतव्याख्या-"पंचालराया वि य" त्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तः साधोः तस्य -मुन्योः सौत्री वचनम् 'अकृत्वा' वज्रतन्दुलवद् गरुकर्मतयाऽत्यन्तदुर्भेदत्वाद् अननुष्ठाय 'अनुत्तरान्' सर्वोत्तमान भुक्त्वा कामभोगान् वक्तव्यता । "अनुत्तरे" सकलनरकज्येष्ठे अप्रतिष्ठान इत्यर्थः स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकपर्यवसानं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते
चित्तो वि कामेहि विरत्तकामो, उदत्तचारित्ततवो महेसी ।
अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ॥ ३५॥ त्ति बेमि ॥ व्याख्या-चित्रोऽपि' चित्रः पुनः कामेभ्यः 'विरक्तकामः' पराङ्मुखीभूताभिलाषः उदात्तं-प्रधानं चारित्रं-सर्वविरतिरूपं तपश्च-द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशभेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनीं सिद्धिगतिं गत इति सूत्रार्थः ।। ३५ ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
POXOXOXOXOXOXOXOXOXOXOXOX
ॐ ॥इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चित्रसम्भृतीयाख्यं त्रयोदशमध्ययनं समाप्तम् ॥