SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । 1120311 XXX जइ तंसि भोगे चउं असत्तो, अज्जाई कम्माई करेहि रायं । । धम्मे ठिओ सबपया कंपी, तो होहिसि देवो इओ विउधी ॥ ३२ ॥ व्याख्या– यदि त्वमसि भोगान् त्यक्तुमशक्तः, ततः किम् ? इत्याह- 'आर्याणि' शिष्टजनोचितानि 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद् गृहस्थधर्मे सम्यग्दृष्ट्यादिशिष्टानुचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः । ततः किं फलम् ? इत्याह- 'ततः ' आर्यकर्मकरणाद् भविष्यसि 'देवः' वैमानिकः 'इतः' अस्माद् मनुष्यभवादनन्तरं "विउवि” त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोऽपि यदाऽसौ न किश्चित् प्रतिपद्यते तदा मुनिराह— ण तुज्झ भोगे चइऊण बुद्धी, गिद्धो सि आरंभपरिग्गहेसु । मोहं कओ इति विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥ ३३ ॥ व्याख्या– 'न' प्रतिषेधे, तव भोगान् उपलक्षणत्वादनार्थकर्माणि वा त्यक्तुं बुद्धिः, किन्तु 'गृद्ध:' मूच्छितः 'असि' भवसि आरम्भपरिग्रहेषु । 'मोघं' निष्फलं यथा भवत्येवं 'कृतः ' विहित एतावान् 'विप्रलापः ' विविधव्यर्थवचनोपन्यासा - त्मकः । सम्प्रति तु गच्छामि राजन् ! 'आमन्त्रितः' अनेकार्थत्वाद् धातूनां पृष्टः 'असि' भवसि । अयमाशय: – अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणाऽनुशिष्यमाणस्याऽपि तव न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षैव श्रेयस्करी । उक्तं हि - " मैत्री - प्रमोद कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" इति सूत्रार्थः ॥ ३३ ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत् तदाह त्रयोदशं चित्रसम्भू तीयाख्य मध्ययनम् । चित्र सम्भूतमुन्योः सौत्री वक्तव्यता । ॥ २०३ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy