________________
चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
| 'धर्म' श्रुतधर्मादिकं कामभोगेषु 'मूछितः' गृद्धः, तदेतत् कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलमिति सूत्रद्वयार्थः ॥२८-२९॥ पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह
नागो जहा पंकजलावसन्नो, द९ थलं णाभिसमेइ तीरं।
एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो मग्गमणुव्वयामो ॥३०॥ व्याख्या-'नागः' हस्ती 'यथे'त्युपन्यासे, पङ्कप्रधानं जलं पङ्कजलं तत्राऽवसन्नः-निमग्नः पङ्कजलावसन्नः सन् दृष्ट्वा स्थलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तीरं' पारम् अपेर्गम्यमानत्वात् तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धाः न 'मिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुब्रजामः' अनुसराम इति सूत्रार्थः ॥३०॥ पुनरनित्यतादर्शनाय मुनिराह
अच्चेइ कालो तूरंति राईओ, ण यावि भोगा पुरिसाण णिचा । . उवेच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१॥ | व्याख्या-'अत्येति' अतिक्रामति 'कालः' यथायुष्ककालः. किमिति ? यतः 'स्वरन्ति' शीघ्रं गच्छन्ति 'रात्रयः'। रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितस्याऽनित्यत्वमुक्तम् । उक्तं हि-"क्षण-याम-दिवस-मासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ?॥१॥" न च भोगा अपि, अपेरत्र सम्बन्धात् पुरुषाणां नित्याः' शाश्वताः, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याहद्रुमं क्षीणफलं यथा 'पक्षी' विहग इव, फलोपमानि हि पुण्यानि, ततस्तद्पगमे पुरुषं पक्षिवद् भोगा मुश्चन्तीति सूत्रार्थः। ॥ ३१ ॥ यत एवमतः