SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ XCXXXXXXXXXXXX1 प्रादुर्भवति । तथा स एव भवति 'कृत्यानां' उचितानुष्ठानानां कलुषान्तःकरणवृत्तिभिरविनीत विनेयैरतिदूरमुत्सादितानां 'शरणं' आश्रयः, 'भूतानां' प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि च किमवाप्यते ? इत्याह पुजा जस्स पसीयंति, संबुद्धा पुवसंथुया । पसन्ना लाभइस्संति, विउलं अट्ठियं सुयं ॥ ४६ ॥ व्याख्या - 'पूज्याः ' आचार्यादयः 'यस्य' शिक्षकस्य 'प्रसीदन्ति' सन्तुष्यन्ति 'संबुद्धा:' सम्यगवगततत्त्वाः, पूर्व-त्राच नादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, संस्तुताः - | विनयविषयत्वेन परिचिताः सम्यक् स्तुता वा सद्भूतगुणोत्कीर्त्तनादिभिः पूर्वसंस्तुताः, 'प्रसन्नाः' सप्रसादाः 'लाभयिष्यन्ति' प्रापयिष्यन्ति, 'विपुल' विस्तीर्ण 'अर्थ:- मोक्षः स एव प्रयोजनमस्येत्यर्थिकं 'श्रुतं' अङ्गोपाङ्गादिभेदमागमम्, अनेन पूज्यप्रसादस्यानन्तर फलं श्रुतमुक्तं, व्यवहितफलं तु मुक्तिरिति सूत्रार्थः ॥ ४६ ॥ सम्प्रति श्रुतावाप्तौ तस्यैहिकं फलमाहस पुज्जसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाइँ पालिया ॥ ४७ ॥ व्याख्या- ' स इति शिष्यः प्रसादितगुरोरधिगतश्रुतः 'पूज्यशास्त्र:' श्लाघ्यशास्त्रः विनीतस्य हि शास्त्रं विशेषेण सर्वत्र पूज्यते । सुष्ठु-अतिशयेन विनीत:- अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयः – सूक्ष्मपदार्थविषयः संदेहो यस्य स सुविनीतसंशयः, मनसः - चेतसः प्रस्तावाद् गुरुसम्बन्धिनो रुचिः - अभिलाषोऽस्मिन्निति मनोरुचिः ' तिष्ठति' | आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद् गुरूणामप्रीतिहेतुर्भवति । कया हेतुभूतया मनोरुचिः ? कर्म - क्रिया दशविधचक्रवालसामाचारीप्रभृतियतिकर्त्तव्यता तस्याः संपत् संपन्नता कर्मसंपत् तया । तपसः - अनशनादेः सामाचारी- समा
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy