________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तरा- सेवितः 'सदा सर्वकालं तमाचरन् 'व्यवहारं' विशेषेणापहारकारिणम् , अर्थापत्त्या पापकर्मणः 'गहाँ' अविनीतोऽयध्ययनसूत्रे मित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति यतिरिति गम्यत इति सूत्रार्थः ॥ ४२ ॥ किं बहुना?श्रीनैमिच- मणोगतं वक्वगतं, जाणित्ताऽऽयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥ न्द्रीयवृत्तिः
व्याख्या-मनसि-चित्ते गतं-स्थितं मनोगतम् तथा वाक्यगतं कृत्यमिति शेषः 'ज्ञात्वा' बुद्धा 'आचार्यस्य गुरोः, ॥१४॥
तुशब्दः कायगतकृत्यपरिग्रहार्थः, तं मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यादि, केन ? 'कर्मणा' क्रियया तन्निवर्तनात्मिकया 'उपपादयेत्' विदधीतेति सूत्रार्थः ॥४३॥ स चैवंविनीतविनयतया यादृक् स्यात् तदाऽऽह
वित्ते अचोइए निचं, खिप्पं हवइ सुचोदए । जहोवइह सुकयं, किचाई कुबई सया ॥४४॥ व्याख्या-'वित्तः' विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः, "अचोइउ" त्ति यथा हि बलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहेत कुतोऽधःपतनम् ? एवमयमनुक्त एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते अतः 'अचोदितः' अप्रेरितः 'नित्यं' सदा न कदाचिदेव । स्वयं प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कदाशङ्कापनोदायाऽऽह-'क्षिप्र' शीघ्रं भवति सति 'सुचोदके शोभने प्रेरयितरि गुराविति गम्यते, 'यथोपदिष्टं उपदिष्टानतिक्रमेण 'सुकृतं' सुष्टुकृतं यथा भवति एवं कृत्यानि 'करोति' निर्वर्त्तयति 'सदा सर्वदेति सूत्रार्थः॥ ४४ ॥ सम्प्रत्युपसंहर्तुमाह
नचा नमइ मेहावी, लोए कित्ती से जायइ । भवइ किचाणं सरणं, भूयाणं जगई जहा ॥४५॥
व्याख्या-ज्ञात्वा' अनन्तरोक्तमखिलमध्ययनार्थमवगम्य 'नमति' तत्तत्कृत्यकरणं प्रति प्रह्वीभवति 'मेधावी' मर्यादाप्रवर्ती । तद्गुणं वक्तुमाह-लोके 'कीर्तिः' 'सुलब्धमस्य जन्म, निस्तीर्णरूपो भवोदधिरनेन' इत्यादिका 'से' तस्य 'जायते'
॥१४॥