________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २०१ ॥
90XXX
0X108
वत् 'किं न मया तदैव सद्नुष्ठानमनुष्ठितमिति खिद्यत एवाऽधर्मकारीति सूत्रार्थः ॥ २१ ॥ स्यादेतत् — मृत्युमुखोपनीतस्य परत्र च दुःखाभिहतस्य स्वजनाद्यस्त्राणाय भविष्यन्ति ततो न शोचिष्यन्ते इत्याशङ्कयाहजह सीहो व मियं गहाय, मच्चू णरं णेइ हु अंतकाले ।
ण तस्स माया व पिया व भाया, कालम्मि तम्मिसहरा भवंति ॥ २२ ॥ ण तस्स दुक्खं विभयंति णायओ, ण मित्तवग्गा ण सुया ण बंधवा । एगो सयं पच्चहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥
व्याख्या - 'यथे' त्यौपम्ये 'इहे' ति लोके 'सिंह: ' मृगपतिः 'वा' इति पूरणे, 'मृगं' कुरङ्गं गृहीत्वा प्रक्रमात् परलोकं | नयतीति सम्बन्धः । एवं 'मृत्यु' कृतान्तः 'नरं' पुरुषं नयति, 'हुः' अवधारणे, ततो नयत्येव, 'अन्तकाले' जीवितव्यावसानसमये । न 'तस्य' मृत्युना नीयमानस्य माता वा पिता वा "भाय" त्ति वाशब्दस्येह गम्यमानत्वात् भ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंशं प्रक्रमात् जीवितभागं धारयन्ति - मृत्युना नीयमानं रक्षन्तीत्यंशधराः, उक्तं हि - " न पिता भ्रातरः पुत्राः, न भार्या न च बान्धवाः । न शक्ता मरणात् त्रातुं, मग्नाः संसारसागरे ॥ १ ॥” इति ॥ स्यादेतत् — जीवि - तारक्षणेऽपि दुःखांशहारिणो भविष्यन्ति अत आह—न 'तस्य' मृत्युना नीयमानस्य 'दुःखं' शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति ' ज्ञातयः' दूरवर्त्तिनः स्वजना न 'मित्रवर्गाः' सुहृत्समूहा न 'सुताः' पुत्रा न 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु 'एक: ' अद्वितीय: 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःखं' क्लेशम् । किमिति ? यतः 'कर्त्तारमेव ' उपार्जयितारमेव 'अनुयाति' अनुगच्छति कर्मेति सूत्रद्वयार्थः ॥ २२-२३ ॥ इत्थमशरणत्वभावनामभिधायैकत्व
भावनामाह
XCXCXCXCX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
मुन्योः सौत्री
वक्तव्यता ।
॥२०१ ॥