SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ चित्र उषितौ 'श्वपाकनिवेशनेषु' चाण्डालगृहेषु ॥ कदाचित् तत्राऽपि विज्ञानविशेषादिना अहीलनीयावेव स्यातामित्याह-तस्यांस च 'जातो' श्वपाकसम्बन्धिन्यां च, 'तुः' विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका-कुत्सिता | सम्भूततस्यां "वुच्छे" त्ति उषितौ "मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ । 'इहे'त्यस्मिन् जन्मनि मुन्योः सौत्री | 'तुः' पुनरर्थः तत इह पुनः 'कर्माणि' शुभानुष्ठानानि "पुरेकडाई" पूर्वकृतानि विशिष्टजात्यादीनां निबन्धनमिति शेषः । | वक्तव्यता। ततः उत्पन्नप्रत्ययैः पुनस्तदुपार्जनायैव यत्नो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भावः ॥ यतश्चैवमतः 'सः' इति सम्भूतनामा अनगार आसीत् । "दाणिसिं" ति देशीयभाषया इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः। किं कृत्वा ? इत्याह-त्यक्त्वा भोगान् अशाश्वतान् , आदीयतेसद्विवेकैह्यते इति आदानः-चारित्रधर्मस्तद्धेतोः 'अभिनिष्काम' आभिमुख्येन प्रव्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रसम्भव इति सूत्रत्रयार्थः ॥ १८-१९-२० ॥ क इव तदकरणे दोषः ? इत्याह इह जीविए राय ! असासयम्मि, धणियं तु पुन्नाइं अकुवमाणो। सो सोयई मचुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥२१॥ व्याख्या-इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन् ! 'अशाश्वते' अस्थिरे "धणियं त"त्ति अतिशयेनैव न तु ध्वजपटप्रान्तादिवत् चञ्चलतामात्रेण 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुवोणः 'सः' इति पुण्यानुपार्जकः शोचते' दुःखातः पश्चात्तापं विधत्ते । मृत्युमुखं-मरणगोचरमुपनीतः तथाविधकर्मभिरुपढौकितः सन् धर्ममकृत्वा "परम्मि" त्ति | चस्य गम्यमानत्वात् परस्मिंश्च 'लोके' जन्मान्तररूपे गत इति शेषः । नरकादिषु ह्यसह्याऽसातवेदनार्दितशरीरः शशिनृप
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy