SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । श्रेष्ठिपुत्रस्य भार्या प्रणयवती आसीत् । साऽन्यदा निजश्वश्वा शिलापुत्रकं गृहमध्यादानायिता। तयोक्तम्-न शक्नोम्यहमेनमतिभारिकमानयितुम् । ततस्तद्भर्त्ता तच्छ्रुत्वा 'अहो! एतस्याः शरीरस्यायासरक्षणायालीकवष्टोत्तरदानम् , तच्छिक्षयाम्येतामिति विचिन्त्य मठयित्वाऽसौ शिलापुत्रकः सुवर्णेन समर्पितस्तस्याः। तया च कण्ठाभरणीकृतः । अन्यस्मिन्नहनि स्मारितं तद्वचस्तेनेषत् स्मित्वा तस्याः। विलक्षीभूताऽसाविति । तथा सर्वे कामा दुःखावहाः, मृगादीनामिव आयतौ दुःखहेतुत्वाद् नरकहेतुत्वाच्चेति ॥ तथा बालानाम् अभिरामाः-चित्ताभिरतिहेतवो ये तेषु दुःखावहेषु उक्तन्यायेन न तत् सुखं कामगुणेषु राजन् !, "विरत्तकामाण" त्ति कामविरक्तानां तपोधनानां यत्' सुखमिति सम्बन्धः, मिथूणां शीलगुणे रतानामिति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति धर्मफलोपदर्शनपुरस्सरमुपदेशमाह नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सवजणस्स वेसा, वसीय सोवागणिवेसणेसु॥१८॥ तीसे य जाईइ उ पावियाए. वुच्छा मुसोवागणिवेसणेसु। सबस्स लोगस्स दुगंछणिजा, इहं तु कम्माई पुरेकडाई ॥१९॥ सो दाणिसिं राय महाणुभागो, महिडिओ पुन्नफलोववेओ। __ चइत्तु भोगाइं असासयाई, आयाणहेउं अभिणिक्खमाहि ॥२०॥ व्याख्या-'भो नरेन्द्र !' चक्रवर्त्तिन् ! जातिः 'अधमा' निकृष्टा नराणां मध्ये श्वपाकजातिः “दुहउ" त्ति द्वयोरपि गतयोः । किमुक्तं भवति ?-यदाऽऽवां श्वपाकावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत् । कदाचित् तामप्यवाप्य अन्यत्रैवोषितौ स्यातामित्याह-यस्यां वयम् , प्राकृतत्वाद् बहुवचनम, सर्वजनस्य 'द्वेष्यो अग्रीतिकरौ "वसीय" ति 'अवसाव' त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम्। चित्रसम्भूतमुन्योः सौत्री वक्तव्यता। ॥२०॥ ॥२० ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy