________________
XXXOXOXOXOXOXOXOXOXOXOX
| रूपादयस्तैरुपेतं पञ्चालगुणोपेतम् , किमुक्तं भवति ?-पञ्चालेषु यानि विशिष्टवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति ।। चित्रपञ्चालानां तदाऽत्युदीर्णत्वात् पञ्चालग्रहणम्, अन्यथा हि भरतेऽपि यद् विशिष्टं वस्तु तत् तद्नेह एव तदाऽऽसीत् ॥ सम्भूतकिञ्च-"नट्रेहिं" ति नृत्यैः गीतैः, चस्य भिन्नक्रमत्वात् वादित्रैश्च नारीजनान् 'परिवारयन्' परिवारं कुर्वन् मुख भोगानमुन्योः सौत्री |'इमान्' परिदृश्यमानान् , सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो! । इह तु यद् गजतुरङ्गादि अनभिधाय स्त्रीणामेवाभिधानं | वक्तव्यता। तत् स्त्रीलोलुपत्वात् तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थम् । किमित्येवम् ? अत आह-मह्यं रोचते' प्रतिभाति | प्रव्रज्या 'हुः' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १३-१४ ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह
तं पुवनेहेण कयाणुरागं, णराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ॥१५॥ व्याख्या-'' ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु गृद्धं 'धर्माऽऽश्रितः' धर्मस्थितः 'तस्येति चक्रिणः [हितानुप्रेक्षी' हितकाङ्की 'चित्रः' चित्रजीवयतिः इदं वाक्यमुदाहृतवानिति सूत्रार्थः॥ १५ ॥ किमुदाहृतवान् ? इत्याहसवं विलवियं गीयं, सबं नÉ विडंबियं । सवे आभरणा भारा, सवे कामा दुहावहा ॥१६॥
बालाभिरामेसु दुहावहेसु, ण तं सुहं कामगुणेसु रायं ।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ ___ व्याख्या-सर्व 'विलपितं' विलपितप्रायं निरर्थकतया गीतम् , मत्तबालकगीतवत् । सर्वं नृत्यं 'विडम्बितं' विडम्बनाप्रायम् , यक्षाधिष्ठितपीतमद्याद्यङ्गविक्षेपवत् ।सर्वाणि आभरणानि भाराः, तत्त्वतो भाररूपत्वात् तेषाम् । तथाहि-कस्यचित्
XXXXXXXXXX