________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १९९ ॥
FOX8X8X
'तथैव' विशिष्टमेव हे राजन् ! । किमित्येवम् ? अत आह-- 'ऋद्धिः' सम्पत् 'द्युतिः' दीप्तिः 'तस्याऽपि ' जन्मान्तरनामतः चित्राभिधानस्य ममाऽपीति भावः चशब्दो यस्मादर्थे, ततो यस्मात् 'प्रभूता' बह्री, गृहस्थभावे ममाऽप्येवंविधत्वादेवेति भावः ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तत् किमिति प्रत्रजितः ? इत्याह- 'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा, वचनेन अप्रभूता - अल्पभूता वचनाल्पभूता स्तोकाक्षरेत्यर्थः, का असौ ? गीयते इति गाथा सा चेहार्थाद् धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं गीता - कथिता अनुगीता, अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । क ? | इत्याह- नरसङ्घमध्ये, 'यां' गाथां श्रुत्वेति शेषः, 'मिक्षवः' मुनयः शीलं - चारित्रं गुणः - ज्ञानं ताभ्यामुपेताः 'इह' जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात् सा मयाऽप्याकर्णिता, ततः श्रमणोऽस्म्यहं जातः, न तु दुःखद्ग्ध| त्वादिति भाव इति सूत्रत्रयार्थः ॥ १०-११-१२ ॥ इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमन्त्रयितुमाहउच्चोद महु कक्के यबंभे, पवेड्या आवसहा य रम्मा ।
इमं गिहं चित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥
हि गीहि य बाइएहिं णारीजणाई परिवारयंतो ।
भुंजाहि भोगाई इमाई भिक्खू !, मम रोचई पवज्जा हु दुक्खं ॥ १४ ॥
व्याख्या - उच्चोदयो मधुः कर्कः, चशब्दात् मध्यो ब्रह्मा च पच प्रासादाः प्रधानाः प्रवेदिताः, मम वर्द्धकि पुरस्सरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकाराः 'रम्याः' रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्ति | इति वृद्धाः । किञ्च – 'इदं' प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपम् प्रभूतं - बहु चित्रम् - अनेकप्रकारं धनं यस्मिन् तत् प्रभूतचित्रधनं प्राकृतत्वाश्च पूर्वापरनिपातः, 'प्रसाधि' प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणाः - इन्द्रियोपकारिणो
O-X-X8-XOXO
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् ।
चित्र
सम्भूतमुन्योः सौत्री वक्तव्यता ।
॥ १९९ ॥