________________
दिला
चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
व्याख्या-सत्यं-मृषाभाषापरिहाररूपं शौचम्-अमायमनुष्ठानं ताभ्यां प्रकटानि-ख्यातानि कर्माणि-प्रक्रमात् शुभानुष्ठानानि मया पुरा कृतानि यानीति गम्यते, तानि 'अद्य' अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् , “परिमुंजामो" त्ति 'परिभुञ्जे' तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये । यथेति गम्यते, 'किमिति प्रभे, 'नु' इति वितर्के, 'चित्रोऽपि चित्रनामाऽपि, कोऽर्थः ?-भवानपि "से" इति तानि तथा परिभुङ्क्ते ?, नैव भुङ्क्ते भिक्षुकत्वाद् भवतः। तथा च किमिति तव यानि मयैव सहोपार्जितानि कर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ॥ ९॥ मुनिराह
सर्व सुचिन्नं सफलं जराणं, कडाण कम्माण ण मोक्खु अस्थि । अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुन्नफलोववेओ ॥१०॥ जाणाहि संभूय! महाणुभागं, महिडियं पुन्नफलोववेयं । चित्तं पि जाणाहि तहेव रायं, इड्डी जुई तस्स वि अप्पभूया ॥११॥ महत्थरूवा वयणप्पभूया, गाहाऽणुगीया णरसंघमज्झे ।
जं भिक्खुणो सीलगुणोववेया, इह जयंते समणो म्हि जाओ॥१२॥ व्याख्या-'सर्व' निरवशेष 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणाम् , उपलक्षणत्वाच्च शेषप्राणिनाम् । किमिति ? यतः 'कृतेभ्यः' अर्थाद अवश्यवेद्येभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्ति, ददति हि तानि निजफलमवश्यमिति भावः । प्राकृतत्वात् सुव्यत्ययः । स्यादेतत्त्व यैव व्यभिचार इत्याह-'अर्थैः' द्रव्यैः 'कामैश्च' प्रतीतैः 'उत्तमैः' प्रधानरुपलक्षितः सन्नात्मा मम 'पुण्यफलोपेतः' चक्रवर्तित्वप्राप्त्या शुभकर्मफलान्वित इति यथा त्वं जानासि ।। हे सम्भूत ! 'महानुभागं' बृहन्माहात्म्यं महर्द्धिक' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि जानीहि
उ०अ०३४