________________
XXXXXXXXXXXoto)
उत्पन्नः ‘पद्मगुल्मात्' नलिनीगुल्मविमानात् च्युत्वेति शेषः । इति सूत्राक्षरार्थः ॥ १ ॥ भावार्थः कथानकादबसेयः, नत्र कथितम । 'चुलन्यां ब्रह्मदत्त उत्पन्नः' इत्युक्तम , स च क ? इत्याह
मम्भूतकंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि। सिडिकलम्मि विसाले, धम्मं सोऊण पवाओ२/Xमुन्यो: सौत्र ___ व्याख्या- 'काम्पिल्ये' काम्पिल्यनाम्नि नगरे 'सम्भूनः' पूर्वजन्मनि सम्भूतनामा, चित्रस्य तु का वार्ता || वक्तव्यता। इत्याह-चित्रः पुनर्जातः पुरिमतालपुरे श्रेष्टिकुले 'विशाले' पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तवयाश्च तथाविधाचार्यसन्निधौ | धर्म श्रुत्वा प्रत्रजित इति सूत्रार्थः ।। २ ॥ ततः किम् ? इत्याह ...... कंपिल्लम्मि य नयरे, समागया दो वि चित्त-संभूया। सुहदुक्खफलविवागं, कहिंति ते एकमेकस्स ३
व्याख्या-काम्पिल्ये च नगरे 'समागतो' मिलितौ द्वावपि चित्र-सम्भूतौ जन्मान्तरनामतः 'सुखदुःखफलविपाकं' | सुकृतदुष्कृतकर्मानुभावरूपं कथयतः तो "एक्कमेकस्स" त्ति 'एकैकम्य' परस्परं सर्वत्र वर्तमाननिर्देशः तत्कालविवक्षया | इति सूत्रार्थः ॥ ३ ॥ साम्प्रतं यदुक्तं सुखदुःखफलविपाकं तो कथयामामतुरिति चक्रवर्ती यथा कथयामास तथा सम्बन्धपुरस्सरमाह
चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेण, इमं वयणमब्बवी ॥४॥ आसिमो भायरा दो वि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहिएसिणो ॥५॥ दासा दसन्ने आसी, मिया कालिंजरे णगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥ देवा य देवलोगम्मि, आसी अम्हे महिड्डिया । इमा णो छढिया जाई, अन्नमन्नण जा विणा ॥७॥ व्याख्या-चक्रवर्ती 'महर्द्धिकः' बृहद्विभूतिः ब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदरं 'बहुमानेन' मानप्रति
•XXXXXXXXX