________________
BXX
खड्डया मे चवेडा मे, अक्कोसा य वहा य मे । कल्लागमगुसासंतो, पावदिहित्ति मन्नइ ॥३८॥
व्याख्या-'खड्काः' टक्कराः 'मे' मम 'चपेटा' करतलयाता मे 'आक्रोशाच' निरभाषणानि मे 'वधाश्च' दण्डादि*घाता मे अनुशासनमिति प्रक्रमः । कल्याणं "अणुसासंतु” त्ति अनुशास्यमानः 'पापदृष्टिः' प्रक्रमात् कुशिष्यः 'इति' एवं सामन्यत इति सूत्रार्थः ॥ ३८ ॥ विनीताभिसन्धिमाहपुत्तो मे भाय नाइ त्ति, साहू कल्लाण मन्नइ । पाव दिट्ठी उ अप्पाणं, सासं दासं व मन्नइ ॥३९॥
व्याख्या-इवार्थस्य गम्यमानत्वात् सुब्व्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञातिमिव “मे” त्ति मां अयमाचार्योऽनुशास्तीति गम्यते, 'इति' एवं 'साधुः' शिष्यः कल्याणं मन्यते । स हि विवेवयति शिष्यः-सौहार्दादेष मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? ममैव त्वर्थभ्रंश इति । बालस्त्वेवं किं न मन्यते ? इत्याह-पापदृष्टिस्तु' कुशिष्यः पुनः आत्मानं “सासं" ति प्राकृतत्वाच्छास्यमानं दासमिव मन्यते, यथैष दासवद् मामाज्ञापयतीति सूत्रार्थः
॥३९॥ विनयसर्वस्वमुपदेष्टुमाहXन कोवए आयरियं, अप्पाणं पि ण कोवए। बुद्धोपघाई ण सिया, ण सिया तोतगवेर्सए ॥४०॥
व्याख्या-न 'कोपयेत्' कोपोपेतं कुर्याद् आचार्यम् उपलक्षणत्वादपरमपि विनयाईम् आत्मानमपि गुरुभिरतिपरुपभाषणादिनाऽनुशिष्यमाणं न कोपयेत् । यतः-मासोपवासनिरतोऽस्तु तनोतु सत्यं, ध्यानं करोतु विद्धातु बहिनिवासम् । ब्रह्मव्रतं धरतु भैक्षरतोऽस्तु नित्यं, रोपं करोति यदि सर्वमनर्थकं तत् ॥ १॥ कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' 'आचार्योपघातकृत्' 'न स्याद्' न भवेत् , तथा न स्यात् तुद्यते-ज्यथ्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनको