SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्ययनम् । सामाचारी चेयं । संयतः-साधुः भुञ्जीत-अनीयात 'जय' ति यतमानः-सुरसुर-चबचब क-सुरुडुक-कुरुडुक-मुरुडुकादिध्ययनसूत्रे शब्दानकुर्वन् 'अप्परिसाडियं' परिसाटरहितमिति सूत्रार्थः ॥ ३५ ॥ यदुक्तम्-यतमान इति तत्र वाग्यतनामाहश्रीनैमिच- सुकडं ति सुपकं ति, सुच्छिन्नं सुहडे मडे । सुणिहिए सुलहित्ति, सावज वजए मुणी ॥३६॥ न्द्रीयवृत्तिः व्याख्या-सुकृतं-सुष्टु निर्वतितमन्नादि, सुपक-घृतपूर्णादि, इतिः-उभयत्रोपदर्शने, सुच्छिन्नं-शाकपत्रादि, सुहृतं॥१२॥ Xसूपविलेपिकाऽऽदिनाऽमत्रकादेघृतादि, सुमृतं-घृताद्येव सक्तुसूपादौ, सुनिष्ठितं-सुष्टु निष्ठां-रसप्रकर्षात्मिकां गतं, सुलष्टं शोभनमोदनादि, अखण्डोज्वलसुस्वादुसिक्थत्वादिना इत्येवंप्रकारमन्यदपि सावधं वर्जयेद् मुनिः । यद्वा सुष्टु कृतं यदनेनाऽरातेः प्रतिकृतं, सुपकं पूर्ववत्, सुच्छिन्नोऽयं न्यग्रोधदुमादिः, सुहृतं कदर्यस्य धनं चौरादिभिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयं प्रासादादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावद्यं वचो वर्जयेद् मुनिः। निरवा तु सुकृतमनेन धर्मध्यानादि, सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयमुत्प्रव्राजयितुकामेभ्यो निजकेभ्यः शैक्षकः, सुमृतमस्य पण्डितमरणेन, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहगस्येत्यादिरूपं । कारणतो वा प्रयत्नपकमित्यादि वदेदपीति सूत्रार्थः ॥ ३६॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यद् भवति तद् दर्शयितुमाह रमए पंडिए सासं, हयं भई व वाहए। बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥ ३७॥ व्याख्या-रमते-अभिरतिमान् भवति पण्डितान्-विनीतविनेयान् शासन-आज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः । हयमिव-अश्वमिव भद्रं-कल्याणावह वाहकः-अश्वंदमः । बालमज्ञं श्राम्यति-खिद्यते शासन, स हि सकृदुक्त एव कृत्येषु न प्रवर्त्तते, ततश्चेदं कुरु इदश्च मा इति पुनः पुनस्तच्छासनेन खिद्यते । गल्यश्वमिव वाहक इति |सूत्रार्थः ॥ ३७ ॥ गुरुशिक्षणे बालस्याऽभिसन्धिमाह ॥१२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy