SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ *OXOXOXOXOXOXOXOXOXOXOXOX नाइउच्चे व णीए वा, णासन्ने नाइदूरओ। फामुयं परकडं पिंड, पडिगाहेज्ज संजए ॥३४॥ व्याख्या-नात्युञ्चे-प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्रोत्पनिक्षेपनिरीक्षणाऽसंभवात् दायकाऽपायसंभवाच्च । यद्वा नाऽत्युच्चः-ऊर्वीकृतकन्धरतया द्रव्यतो भावतोऽहोऽहं लब्धिमानिति मदाध्मातमानसः, नीचोऽत्यन्ताsवनतकन्धरो द्रव्यतो भावतस्तु न मयाऽद्य किञ्चित् कुत्रचिदवाप्तमिति दैन्यवान् । उभयत्र वा समुच्चये । तथा नासन्नेनाऽतिदूरे प्रदेशे स्थित इति गम्यते । यथायोगं जुगुप्साशङ्कषणाशुद्ध्यसंभवादयो दोषाः । प्रासुकं-सहज-संसक्तिज|जन्तुरहितं, परकृतं-परेण गृहिणाऽऽत्मार्थ परार्थश्च कृतं निर्वर्तितं पिण्डं-आहारं प्रतिगृह्णीयात्-स्वीकुर्यात् संयतः-यतिरिति सूत्रार्थः ॥ ३४ ॥ पुन सैषणाविधिमाह अप्पपाणेऽप्पबीयम्मि, पडिच्छन्नं ति संवुडे । समयं संजए भुंजे, जयं अप्परिसाडियं ॥ ३५॥ व्याख्या-अल्पशब्दोऽभाववाची, ततश्चाल्पप्राणे-अवस्थिताऽऽगन्तुकजङ्गमप्राणिविरहिते उपाश्रयादाविति गम्यते । अल्पबीजे-शाल्यादिबीजवर्जिते, उपलक्षणत्वात् सकलस्थावरजन्तुविकले । प्रतिच्छन्ने-उपरिप्रावरणाऽन्विते, अन्यथा संपाति मसत्त्वसंपातसंभवात् । संवृते-पार्श्वतः कटकुड्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदोषदर्शनात् । समक-अन्यैः सह न त्वेकाक्येव रसलम्पटतया समूहाऽसहिष्णुतया वा। आह च-साहवो तो चियत्तेणं, निमंतेज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु मुंजए ॥ १॥ गच्छस्थित १ साधून ततः प्रीत्या निमन्वयेत् यथाक्रमम् । यदि तन केचिदिच्छेयुस्तैः सार्ध तु भुजीत ॥१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy