________________
हरिकेशमुनेः
सौत्री वक्तव्यता।
ण्वादिकमपि नाऽर्चयामः। तथा भुङ “सालिम" ति 'शालिमयं' शालिनिष्पन्नं 'कूरं' ओदनं नानाव्यञ्जनसंयुक्तमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
इमं च मे अत्थि पभूयमन्नं, तं भुंजसु अम्ह अणुग्गहट्ठा।
बाद ति पडिच्छति भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥३५॥ व्याख्या-'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' मम 'अस्ति' विद्यते 'प्रभूतं' प्रचुर 'अन्नं' मण्डकखण्डखाद्यादि समस्तं भोजनं तद् भुज अस्माकमनुग्रहार्थम् । एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्मः 'इति' एवं ब्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृहाति भक्तं पानं "मासस्स उ" त्ति मासादेव पारणके महात्मा इति सूत्रार्थः॥३५॥ तदा च तत्र यदभूत् तदाह
तहियं गंधोदयपुप्फवासं, दिवा तहिं वसुहारा य वुट्ठा।
पहताओ दुंदुभीओ सुरेहिं, आगासे अहोदाणं च घुटुं॥३६॥ व्याख्या-"तहियं" ति तस्मिन्' यज्ञपाटे, गन्धोदकं च पुष्पाणि च तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात् कृतमिति गम्यते । 'दिव्या' अतिश्रेष्ठा "तहिं" ति तस्मिन्नेव वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिः | वसुधारा सा च 'वृष्टे'ति पातिता सुरैरित्यत्रापि सम्बद्ध्यते । तथा प्रहताः 'दुन्दुभयः' देवानकाः सुरैः। तथा तैरेव आकाशे अहोदानं च 'घुष्टं शब्दितमिति सूत्रार्थः॥ ३६॥ तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः
सक्खं खु दीसइ तवोविसेसो, ण दीसइ जाइविसेस कोई। सोवागपुत्त हरिएससाहु, जस्सेरिसा इढि महाणुभागा ॥ ३७॥