________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वादशं हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः । सौत्री वक्तव्यता।
॥१८१॥
उक्तश्च केनचित्-"आत्मद्रुहममर्याद, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥१॥" किञ्चमहाप्रसादा ऋषयो भवन्ति, "न हु" त्ति न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह
पुचि च इण्हिं च अणागयं च, मणप्पदोसो ण मे अत्थि कोई।
जक्खा हु वेयावडियं करेंति, तम्हा हु एते णिहता कुमारा ॥ ३२॥ व्याख्या-'पूर्व च' पुरा 'इदानीं च' अधुना "अणागयं च" त्ति 'अनागते च' भविष्यति काले मनःप्रद्वेषो न मेऽस्ति उपलक्षणत्वाद् आसीद् भविष्यति च 'कोऽपी'त्यल्पोऽपि । यक्षाः 'हुरिति यस्माद् वैयावृत्यं कुर्वन्ति "तम्हे" त्ति तस्मात् 'हुर'वधारणे, ततस्तस्मादेव हेतोरेते निहताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ॥३२॥ सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः
अत्थं च धम्मं च वियाणमाणा, तन्भे ण वि कुप्पह भूतिपन्ना।
तुभं तु पाए सरणं उवेमो, समागया सवजणेण अम्हे ॥ ३३ ॥ व्याख्या-'अर्थं च' अभिधेयं शास्त्राणामिति गम्यते, धर्म च' यतिधर्म क्षान्त्यादिकं 'विजानन्तः' अवगच्छन्तो यूयं 'नाऽपि नैव कुप्यथ भूतिः-रक्षा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरेषामिति भूतिप्रज्ञाः, अतश्च "तुब्भ तु" ति युष्माकमेव पादौ शरणम् 'उपेमः' उपगच्छामः, समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ किञ्चअचेमु ते महाभागा!, ण ते किंचिण अचिमो। भुंजाहि सालिमं कूरं, णाणावंजणसंजुयं ॥३४॥ व्याख्या-'अर्चयामः' पूजयामः "ते" त्ति सुव्यत्ययात् त्वां हे महाभाग!, 'न' नैव तव 'किञ्चित्' चरणरे
*॥१८१॥