________________
हरिकेशमुनेः
सौत्री
वक्तव्यता।
ताद्वय
अवहेडियपिट्ठिसउत्तमंगे, पसारियाबाहुअकम्मचेटे। णिन्भेरियच्छे रुहिरं वमंते, उर्दूमुहे णिग्गयजीहणेत्ते ॥ २९॥ ते पासिया खंडिय कट्ठभूए, विमणो विसन्नो अह माहणो सो।
ईसिं पसाएइ सभारियाओ, हीलं च णिंदं च खमाह भंते !॥ ३०॥ व्याख्या-अवहेठितानि-अधोनामितानि “पट्ठि" त्ति पृष्ठं यावत् सन्ति-शोभनान्युत्तमाङ्गानि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः मध्यमपदलोपी समासस्तान , प्रसारिता बाहवो येषां ते तथा, कर्माणि-अग्नौ समित्प्रक्षेपणादीनि तद्विषया |चेष्टा कर्मचेष्टा, अविद्यमाना कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितबाबकर्मचेष्टास्तान , “निब्भेरिय" ति प्रसारितानि अक्षीणि-नयनानि येषां ते तथा तान् , रुधिरं वमतः "उडुमुहे" ति ऊर्द्धमुखान, निर्गतजिह्वानेत्रान् तान् दृष्ट्वा "खंडिय"त्ति सुपो लोपात् 'खण्डिकान्' छात्रान् 'काष्ठभूतान्' अत्यन्तनिश्चेष्टतया काष्ठोपमान 'विमनाः' विचित्तः 'विषण्णः' विषादं गतः, 'अथेति दर्शनानन्तरं ब्राह्मणः 'सः' इति रुद्रदेवनामा ऋषि प्रसादयति 'सभार्याकः' भार्यायुक्तः, कथम् ? इत्याह-'हीलां च' अवज्ञा 'निन्दा च' दोषोद्भावनं क्षमस्व भदन्त ! इति सूत्रद्वयार्थः ॥२९-३०॥ पुनः प्रसादनमेवाह
बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते !।
महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१॥ व्याख्या-'बालैः' शिशुभिः 'मूढैः' कषायमोहनीयवशगैः अत एव 'अज्ञैः' हिताहितविवेकविकलैः यद् हीलिताः "तस्स" त्ति सूत्रत्वात् तत् क्षमख भदन्त !, न हि अज्ञानाद्युपहतानामुपरि महात्मनां कोपः, अनुकम्पनीया एवामी ।
XOXOXOXOXOXOXXXXXX
उ०अ०३१