SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ १८० ॥ सीसेण एवं सरणं उवेह, समागया सबजणेण तुम्हे । जइ इच्छह जीवियं वा धणं वा, लोगं पि एसो कुविओ डहेज्जा ॥ २८ ॥ व्याख्या - गिरिं नखैः 'खनथ' विदारयथ, 'अयः' लोहं दन्तैः खादथ, 'जाततेजसम्' अग्निं पादैः 'हथ' ताडयथ, सर्वत्र इवार्थो द्रष्टव्यः । 'ये' यूयं 'भिक्षु' प्रक्रमादेनं 'अवमन्यध्ये' अवधीरयथ, अनर्थफलत्वाद् भिक्ष्वपमानस्येति भावः ॥ कथमिदम् ? इत्याह – 'आशीविषः ' आशीविषलब्धिमान् - शापानुग्रहसमर्थ इत्यर्थः । कुतः पुनरयं एवंविधः ? यत उग्रतपा महर्षि: घोरतो घोरपराक्रमश्च । यतश्चैवमतः 'अग्निं' ज्वलनं 'वा' इवार्थो भिन्नक्रमश्च ततः 'प्रस्कन्दथेव' आक्राम थेव । केव ? "पयंगसेण” त्ति उपमार्थस्य गम्यमानत्वात् 'पतङ्गसेनेव' शलभसन्ततिरिव, यथा ह्यसौ तत्र पतन्ती आशु घातमाप्नोति एवं भवन्तोऽपीति भावः । 'ये' यूयं भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयः, यूयं तु न केवलं न प्रयच्छत किन्तु तत्रापि "वह" त्ति 'विध्यथ' ताडयथेति ॥ तेषां तन्माहात्म्यमावेद्य कृत्योपदेशमाह - ' शीर्षेण' शिरसा 'एनं' मुनिं 'शरणं' त्राणम् 'उपेत' अभ्युपगच्छत, किमुक्तं भवति ? – शिरः प्रणाम पूर्वकमयमेवा| स्माकं शरणमिति प्रतिपद्यध्वम्, 'समागताः ' मिलिताः सर्वजनेन सह यूयम्, यदीच्छत जीवितं वा धनं वा, नाऽस्मिन् कुपिते जीवितादिरक्षाक्षमं अन्यत् शरणमस्ति । किमित्येवम् ? अत आह— 'लोकमपि' भुवनमपि एष कुपितो दहेत् । तथा च वाचकः-- "कल्पान्तोप्रानलवत्, प्रज्वलनं तेजसैकतस्तेषाम्” तथा लौकिका अप्याहुः - "न तद् दूरं यदश्वेषु, यच्चानौ यच्च मारुते । विषे च रुधिरे प्राप्ते, साधौ च कृतनिश्चये ॥ १ ॥” इति सूत्रत्रयार्थः ॥ २६-२७-२८ ।। सम्प्रति तत्पतिस्तान् दृष्ट्वा यदचेष्टत तदाह 8-X-XOXOX XCXCX द्वादशं हरिकेशीयाख्यमध्ययनम् । हरिकेशमुनेः सौत्री वक्तव्यता । ॥ १८० ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy