SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ हरिकेशमुनेः सौत्री | वक्तव्यता। के इत्थ खत्ता उवजोइया वा, अज्झावया वा ? सह खंडिएहिं। एयं तु दंडेण फलेण हंता, कंठम्मि घेत्तूण खलेज जो णं ॥१८॥ व्याख्या के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयः ? "उवजोइय" त्ति 'उपज्योतिषः' अग्निसमीपवर्त्तिनो महानसिकाः ? 'अध्यापकाः' पाठकाः ?, उभयत्र वा विकल्पे, 'सहेति युक्ताः 'खण्डिकैः' छात्रैः ये, किम् ? इत्याह'एन' श्रमणकं 'दण्डेन' वंशयष्ट्यादिना 'फलेन' विल्वादिना 'हन्ते'ति हत्वा-ताडयित्वा ततश्च 'कण्ठे' गले गृहीत्वा "खलेज" ति 'स्खलयेयुः' निष्काशयेयुः। "जो" ति वचनव्यत्ययाद् ये, "गं" वाक्यालङ्कारे इति सूत्रार्थः ॥ १८ ॥ अत्रान्तरे यत्तत्राभूत् तदाह अज्झावयाणं वयणं सुणेत्ता, उद्धाइया तत्थ बहू कुमारा। दंडेहिं वेत्तिहि कसेहिं चेव, समागया तं इसिं तालयंति ॥१९॥ व्याख्या-'अध्यापकानाम्' उपाध्यायानां वचनं श्रुत्वा 'उद्धाविताः' वेगेन धाविताः तत्र बहवः 'कुमारा' छात्रादिरूपाः, ते हि क्रीडनकपरा इति 'अहो ! क्रीडनकमागतम्' इति रभसतः 'दण्डैः' वंशदण्डादिभिः 'वेत्रैः' जलवंशरूपैः 'कशैश्चैव' वर्धविकारैः 'समागताः' मिलिताः तं 'ऋषि' मुनि ताडयन्ति इति सूत्रार्थः ॥ १९॥ अस्मिंश्चावसरे रन्नो तर्हि कोसलियस्स धया, भद्द त्ति नामेण अर्णिदियंगी। तं पासिता संजय हम्ममाणं, कुद्धे कुमारे परिणिववेइ ॥२०॥ व्याख्या-राज्ञः' नृपतेः 'तत्र' यज्ञपाटके, कोशलायां भवः कौशलिकस्तस्य "धूय" ति दुहिता भद्रेति नाम्नी 'अनिन्दितानी' कल्याणशरीरा 'तं' हरिकेशबलं "पासिय" त्ति दृष्ट्वा 'संयतं' तस्यामप्यवस्थायां हिंसादेरुपरतं
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy